अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते।
नामसाम्यादहो चित्रं 1धत्तूरोऽपि मदप्रदः॥ 1 ॥
न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः॥ 2 ॥
धनमर्जय काकुत्स्थ धनमूलमिदं जगत्।
अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च॥ 3 ॥
ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिना तुल्यवंशोऽपि निर्धनः 2परिभूयते॥ 4 ॥
कुत आगत्य घटते विघट्य क्व नु याति च।
न लक्ष्यते गतिश्चित्रा घनस्य च धनस्य च॥ 5 ॥
स्त्रीरूपं मोहकं पुंसो यून एव भवेत्क्षणम्।
कनकं स्त्रीबालवृद्धषण्ढानामपि सर्वदा॥ 6 ॥
न नरस्य नरो दासो दासश्चार्थस्य भूपते।
गौरवं लाघवं वापि धनाधननिबन्धनम्॥ 7 ॥
विभवो हि यथा लोके न शरीराणि देहिनाम्।
चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्॥ 8 ॥
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स 3श्रुतवान्गुणज्ञः।
स एव वक्ता स च 4दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति॥ 9 ॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च।
तमर्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः॥ 10 ॥
बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते।
न च्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फला गुणाः॥ 11 ॥
धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति।
धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्॥ 12 ॥
दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि 5धनं धनं धनम्।
इत्थमेव निनदः प्रवर्तते किं पुनर्यदि जनः स चेतनः॥ 13 ॥
त्यक्त्वा युवा स्वयुवतिं सुविलासयोग्यां दूरं विदेशवसतौ निवसन्धनार्थी।
रात्र्यागमे स्मरति तां न समेति तस्मात्कान्ताभ्रमादपि वरः कनकभ्रमोऽयम्॥ 14 ॥
जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदहृतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे॥ 15 ॥
माता निन्दति नाभिनन्दति पिता भ्राता न संभाषते भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते।
अर्थप्रार्थनशङ्कया न कुरुते संभाषणं वै सुहृत्तस्माद्द्रव्यमुपार्जयस्व सुमते द्रव्येण सर्वे वशाः॥ 16 ॥