या स्वसद्मनि पद्मेऽपि 1संध्यावधि विजृम्भते2।
3 इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम्4॥ 1 ॥
गुणिनं जनमालोक्य निजबन्धनशङ्कया।
राजल्ँलक्ष्मीः 5कुरङ्गीव दूरं दूरं पलायते॥ 2 ॥
शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः।
सापत्न्यात्पण्डितमपि तस्मात्कृपणमाश्रये॥ 3 ॥
गोभिः क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः।
क्रीडत्यद्यापि सा लक्ष्मीरहो देवी पतिव्रता॥ 4 ॥
अत्यार्यमतिदातारमतिशूरमतिव्रतम्।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति॥ 5 ॥
अनागतविधातारमप्रमत्तमकोपनम्।
स्तिरारम्भमदीनं च नरं श्रीरुपतिष्ठते॥ 6 ॥
मन्ये सत्यमहं लक्ष्मीः समुद्राद्धूलिरुत्थिता।
पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वललोचनाः॥ 7 ॥
समायाति यदा लक्ष्मीर्नारिकेलफलाम्बुवत्।
विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत्॥ 8 ॥
लक्ष्मी 6र्यादोनिधे7र्यादो 8नादो वादोचितं वचः।
बिभ्यती 9धीवरेभ्यो या 10जडेष्वेव निमज्जति11॥ 9 ॥
(10. मूर्खेषु; (पक्षे डलयोः सावर्ण्यात्) उदकेषु.)
कुटिला लक्ष्मीर्यत्र प्रभवति न सरस्वती वसति तत्र।
प्रायः श्वश्रूस्नुषयोर्न दृश्यते सौहृदं लोके॥ 10 ॥
12अव्यवसायिनमलसं दैवपरं13 साहसाच्च परिहीनम्।
14प्रमदा पतिमिव वृद्धं नेच्छति लक्ष्मीरुपस्थातुम्॥ 11 ॥
गुणवद्भिः सह संगममुच्चैःपदमाप्तुमुत्सुका लक्ष्मीः।
वीरकरवा15लवसतिर्ध्रुवमसिधाराव्रतं चरति॥ 12 ॥
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्।
उपदिशति कामिनीनां यौवनमद एव ललितानि॥ 13 ॥
वाक्यक्षुःश्रोत्रलयं लक्ष्मीः कुरुते नरस्य को दोषः।
गरलसहोदरजाता तच्चित्रं यन्न मारयति॥ 14 ॥
अनुभवत ददत वित्तं मान्यान्मानयत सज्जनान्भजत।
अतिपरुषपवनविलुलितदीपशिखाचञ्चला लक्ष्मीः॥ 15 ॥
रत्नाकरतनुजनुषि द्विजराजे राजनि श्रियो मित्रे।
अमृतकरे च कलावति पद्मिनि वामा कुतो भवती॥ 16 ॥
पूरयति पूर्णमेषां तरङ्गिणीसंहतिः समुद्रमिव।
लक्ष्मीरधनस्य पुनर्लोचनमार्गेऽपि नायाति॥ 17 ॥
सुव्यवसायिनि शूरे क्लेशसहिष्णावनाकुलारम्भे।
मयि पृष्ठतो विलग्ने यास्यसि कमले वियद्दूरम्॥ 18 ॥
अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरनेकदा निपुणैः।
निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिच्छिला लक्ष्मीः॥ 19 ॥
हरिभामिनि सिन्धुसंभवे कमले किं कथयामि ते गुणान्।
अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विरज्यसि॥ 20 ॥
वीक्षितानि तव वारिधिकन्ये यत्र पालितजगन्ति लगन्ति।
चित्रमत्र च परत्र च देही देहिशब्दमपहाय यकास्ति॥ 21 ॥
यद्वदन्ति चपलेत्यपवादं नैव दूषणमिदं 1कमलायाः।
दूषणं जलनिधेर्हि भवेत्तद्यत्पु2राणपुरुषाय ददौ ताम्॥ 22 ॥
चाञ्चल्यमुच्चैः श्रवसस्तुरंगात्कौटिल्यमिन्दोर्विषतो विमोहः।
इति श्रियाशिक्षि सहोदरेभ्यो न वेद्मि कस्माद्गुणवद्विरोधः॥ 23 ॥
श्वश्रूं विना वृत्तिरिह स्वतन्त्रा प्रायः स्नुषाणामपवादहेतुः।
यद्वाणि लोके रमया विहीनां सतीमपि त्वामसतीं वदन्ति॥ 24 ॥
उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम्।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः॥ 25 ॥
3हालाहलो नैव विषं विषं 4रमा जनाः परं 5व्यत्ययमत्र मन्वते।
निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः॥ 26 ॥
तापापहे सुहृदये रुचिरे प्रबुद्धे मित्रानुरागनिरते धृतसद्गुणौघे।
स्वाङ्गप्रदानपरिपूरितषट्पदौघे युक्तं तवेह कमले कमले स्थितिर्यत्॥ 27 ॥
रत्नाकरस्तव पिता कमले निवासो भ्राता 6सुधामयतनुः पतिरादिदेवः7।
केनापरेण कमले बत शिक्षितानि सारङ्गशृङ्गकुटिलानि विचेष्टितानि॥ 28 ॥
लक्ष्मि क्षमस्व वचनीयमिदं दुरुक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन।
नो चेत्कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति 8पन्नगभो9गतल्पे10॥ 29 ॥
11असौ भाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं1 तद्गेहं भवति पृथुकार्तस्वरमयम्।
निविष्टः पल्यङ्के कलयति स 2कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र तनुते॥ 30 ॥
समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः स्वसा 3प्रालेयांशोस्त्रिनयनशिरोधामवसतेः।
मुरारातेर्योषित्सरसिरुहकिञ्जल्कनिलया तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान्॥ 31 ॥
तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न संतिष्ठते मूर्खान्द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि।
शूरेभ्योऽप्यधिकं बिभेत्युपहसत्येकान्तभीरूनपि श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम्॥ 32 ॥
कस्मैचित्कपटाय कैटभिरिपूरःपीठदीर्घालयां देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे।
यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम्॥ 33 ॥
पद्मे मूढजने ददासि द्रविणं विद्वत्सु किं मत्सरो नाहं मत्सरिणी न चापि चपला नैवास्ति मूर्खे रतिः।
मूर्खेभ्यो द्रविणं ददामि नितरां तत्कारणं श्रूयतां विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नान्या गतिः॥ 34 ॥
तिर्यक्त्वं भजतु प्रतारयतु वा धर्मक्रियाकोविदं हन्तु स्वां जननीं पिबत्वपि सुरां शुद्धां वधूमुज्झतु।
वेदान्निन्दतु वा हिनस्तु जनतां किं वानया चिन्तया लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्वन्द्यताम्॥ 35 ॥
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौढ्यं भवेदार्जवम्।
पात्रापात्रविचारणाविरहिता यच्छत्युदारात्मतां मातर्लक्ष्मि तव प्रसादवशतो दोषा अमी स्युर्गुणाः॥ 36 ॥
हे लक्ष्मि क्षणिके स्वभावचपले मूढे च पापेऽधमे न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणि।
ये देवार्चनसत्यशौचनिरता ये चापि धर्मे रतास्तेभ्यो लज्जसि निर्दये गतमतिर्नीचो जनो 4वल्लभः॥ 37 ॥
नाहं दुश्चरिणी न चापि चपला मूर्खो न मे रोचते नो शूनो न च पण्डितो न च शठो हीनाक्षरो नैव च।
पूर्वस्मिन्कृतपुण्ययोगविभवो भुक्तं स मे सत्फलं लोकानां किमसह्यता सखि पुनर्दृष्ट्वा परां सम्पदम्॥ 38 ॥
हन्तुर्बन्धुजनान्धनार्थ5मनघान्गन्तुः परस्त्रीशतं रन्तुर्जन्तुविहिंसकैः6 सह जनैः संतुष्यतो वञ्चनैः।
वक्तुस्तीक्ष्ण1मयुक्तमेव वचनं 2पक्तुर्मितं चौदनं नित्यं नृत्यसि मन्दिरेषु कमले 3क्वत्यं तवैतन्मतम्॥ 39 ॥
यत्राभ्यागतदानमानचरणप्रक्षालनं भोजनं सत्सेवा पितृदेवतार्चनविधिः सत्यं गवां पालनम्।
धान्यानामपि संग्रहो न कलहश्चित्तानुरूपा प्रिया हृष्टा प्राह हरिं वसामि कमला तस्मिन्गृहे निश्चला॥ 40 ॥
येषामन्यक4लत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ मूढं हृच्च परार्थचिन्तनविधौ मिथ्यानभिज्ञं मुखम्।
अप्रज्ञातपशून्बुभुक्षितशिशूनभ्रोदकैस्ताम्यतस्तेषां लक्ष्मि गृहान् दृशापि भयभीतेवेह नो वीक्षसे॥ 41 ॥
नो जानाति कुलीनमुत्तमगुणं सत्त्वान्वितं धार्मिकं नाचारप्रवणं न कार्यकुशलं न प्रज्ञयालंकृतम्।
नीचं क्रूरमपेतसत्त्वमदयं यस्मादियं सेवते तद्वंशानुगुणं पयोधिसुतया लक्ष्म्या प्रमाणीकृतम्॥ 42 ॥
पीतोऽगस्त्येन 5तातश्चरणतलहतो वल्लभो6ऽन्येन रोषादाबाल्याद्विप्रवर्यैः स्ववदनविवरे धारिता 7वैरिणी मे।
8गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलसदनं नाथ नित्यं त्यजामि॥ 43 ॥