खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥ 1 ॥
न विना परवादेन रमते दुर्जनो जनः।
काकः सर्वरसान्भुक्त्वा विना मेध्यं1 न तृप्यति॥ 2 ॥
विशि2खव्या3लयोर4न्त्यवर्णाभ्यां यो विनिर्मितः।
परस्य हरति प्राणान्नैतच्चित्रं कुलोचितम्॥ 3 ॥
विषमा5 6मलिनात्मानो द्विजिह्वा जिह्मगा7 इव।
जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः॥ 4 ॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयंकरः॥ 5 ॥
खलानां कण्टकानां च द्विविधैव 8प्रतिक्रिया।
9उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥ 6 ॥
अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च।
एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य 10वारितः॥ 7 ॥
ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः।
कवलीकुरुते खस्थं विधुं दिवि विधुंतुदः॥ 8 ॥
क्वचित्सर्पोऽपि मित्रत्वमीयान्नैव खलः क्वचित्।
न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः॥ 9 ॥
उपकारोऽपि नीचानामपकारो हि जायते।
पयःपानं भुजंगानां केवलं विषवर्धनम्॥ 10 ॥
अलकाश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः।
उपर्युपरि संस्कारेऽप्याविष्कुर्वन्ति वक्रताम्॥ 11 ॥
खलानां धनुषां चापि सद्वंश11जनुषामपि।
12गुणलाभो भवेदाशु परहृद्भेदकारकः॥ 12 ॥
बहु13निष्कपटद्रोही 14बहुधान्योपघातकः।
15रन्ध्रान्वेषी च सर्वत्र दूषको मूषको यथा॥ 13 ॥
नौश्च दुर्जनजिह्वा च 16प्रतिकूलविसर्पिणी।
17परप्रतारणायैव 18दारुणा केन निर्मिता॥ 14 ॥
यस्मिन्वंशे1 समुत्पन्नस्तमेव निजचेष्टितैः।2
दूषयत्यचिरेणैव 3घुणकीट इवाधमः॥ 15 ॥
स्वभावकठिनस्यास्य 4कृत्रिमां बिभ्रतो 5नतिम्।
गुणोऽपि6 परहिंसायै चापस्य7 च खलस्य च॥ 16 ॥
अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात्।
पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव॥ 17 ॥
वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः।
श्वा भवत्यपकाराय लिहन्नपि दशन्नपि॥ 18 ॥
वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते।
कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः॥ 19 ॥
स्नेहेन8 9भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः।
दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा॥ 20 ॥
आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य10 च।
सोढुं तयोर्मुखाक्षेपमलमेकैव सा 11क्षमा॥ 21 ॥
यथा यथैव स्नेहेन 12भूयिष्ठमुपचर्यते।13
धत्ते तथा तथा तापं महावैश्वानरः14 खलः॥ 22 ॥
दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते।
अपि गङ्गाजलस्नानान्नाधः केशः कुशायते॥ 24 ॥
दह्यमानाः सुतीव्रेण नीचाः परयशोग्निना।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते॥ 25 ॥
खलः सत्त्रियमाणोऽपि ददाति कलहं सताम्।
दुग्धधौतोऽपि किं याति वायसः 16कलहंसताम्॥ 26 ॥
संत्यज्य शूर्पवद्दोषान्गुणान्गृह्णाति पण्डितः।
दोषग्राही गुणत्यागी 17पल्लोलीव हि दुर्जनः॥ 28 ॥
खलो न साधुतां याति सद्भिः संबोधितोऽपि सन्।
सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरायते॥ 29 ॥
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे॥ 30 ॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः।
शीलमेतदसाधूनामभ्रं 18पारिप्लवं यथा॥ 31 ॥
अशक्ताः शक्तिमात्मीयां श्लाघयन्ते च दुर्जनाः।
ते भवन्त्युपहासाय महतामेव संनिधौ॥ 32 ॥
सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः।
मन्त्रेण शाम्यते सर्पो न खलः शाम्यते कदा॥ 33 ॥
दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम्।
मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा॥ 34 ॥
दुर्जनः सुजनो न स्यादुपायानां शतैरपि।
अपानं मृत्सहस्रेण दौतं चास्यं कथं भवेत्॥ 35 ॥
खलास्तु कुशलाः साधु हित1प्रत्यूहकर्मणि।
निपुणाः फणिनः प्राणानपहर्तुं निराग2साम्॥ 36 ॥
अहो बत महत्कष्टं विपरीतमिदं जगत्।
येना3पत्रपते साधुरसाधुस्तेन तुष्यति॥ 37 ॥
तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः।
वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम्॥ 38 ॥
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम्॥ 39 ॥
वर्दनं वाथ संमानं खलानां प्रीतये कुतः।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः॥ 40 ॥
दुर्जनैरुच्यमानानि वचांसि मधुराण्यपि।
अकालकुसुमानीव भयं संजनयन्ति हि॥ 41 ॥
शतं दद्यान्न विवदेदिति विज्ञस्य संमतम्।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम्॥ 42 ॥
अहो खलभुजंगस्य विपरीतो वधक्रमः।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते॥ 43 ॥
न यत्नकोटिशतकैरपि दुष्टः सुधीर्भवेत्।
किं मर्दितोऽपि कस्तूर्यां लशुनो याति सौरभम्॥ 44 ॥
पाषाणो भिद्यते टङ्कैर्वज्रं वज्रेण भिद्यते।
सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते॥ 45 ॥
दुर्जनो दोषमादत्ते दुर्गन्धिमिव सूकरः।
सज्जनश्च गुणग्राही हंसः क्षीरमिवाम्भसः॥ 46 ॥
अपूर्वा 4रसनाव्यालाः खलाननविलेशयाः।
कर्णमूले स्पृशन्त्यन्यं हरन्त्यन्यस्य जीवितम्॥ 47 ॥
दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्॥ 48 ॥
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्॥ 49 ॥
मनस्यन्यद्वचस्यन्यत्कार्ये चान्यद्दुरात्मनाम्।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्॥ 50 ॥
5जीवनग्रहणे 6नम्रा गृहीत्वा पुनरुन्नताः।7
किं कनिष्ठाः किमु ज्येष्ठा 8घटीयन्त्रस्य दुर्जनाः॥ 51 ॥
बिभ्राणा गरलं कण्ठे 9भुजंगपरिवेष्टिता।
शांभवीव तनुः कस्य न वन्द्या 10दौर्जनी सभा॥ 52 ॥
11अक्षमालापवृत्तिज्ञा 12कुशासनपरिग्रहा।
ब्राह्मीव दौर्जनी संसद्वन्दनीया 1समेखला॥ 53 ॥
खलः करोति दुर्वृत्तं नूनं फलति साधुषु।
दशाननोऽहरत्सीतां बन्धनं च महोदधेः॥ 54 ॥
कुर्वते स्वमुखेनैव 2बहुधान्यस्य खण्डनम्।
नमः पतनशीलाय मुसलाय खलाय च॥ 55 ॥
अपवादादभीतस्य समस्य गुणदोषयोः।
असद्वृत्तेरहो वृत्तं दुर्विभाव्यं विधेरिव॥ 56 ॥
न देवाय न धर्माय न बन्धुभ्यो न चार्थिने।
दुर्जनस्यार्जितं वित्तं भुज्यते राजतस्करैः॥ 57 ॥
मुखं पद्मदलाकारं वाचा चन्दनशीतला।
हृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम्॥ 58 ॥
निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः।
चिरं जलनिधौ मग्नो मैनाक इव मार्दवम्॥ 59 ॥
खलः सज्जनकार्पास3धक्षणैकहुताशनः।
परदुःखाग्निधमनमारुतः केन वर्ण्यताम्॥ 60 ॥
4यशःसौरभ्यलशुनः 5शान्तिशैत्यहुताशनः।
6कारुण्यकुसुमाकाशः खलः सज्जनदुःखदः॥ 61 ॥
अन्तर्मलिनदेहेन बहिराह्लादकारिणा।
7महाकालफलेनेव के खलेन न वञ्चिताः॥ 62 ॥
अहो 8प्रकृतिसादृश्यं श्लेष्मणो9 दुर्जनस्य च।
मधुरैः10 कोपमायाति कटुकेनैव शाम्यति॥ 63 ॥
ईषल्लब्दप्रवेशोऽपि स्नेहविच्छेदकारकः।
कृतक्षोभो 11नरीनर्ति खलो मन्थानदण्डवत्॥ 64 ॥
विवृण्वती पुरस्तैक्ष्ण्यं पृष्ठतः कुर्वती गुणम्।
कर्णान्विध्यति लोकस्य सूचीवत्सूचकस्य वाक्॥ 65 ॥
सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः॥ 66 ॥
कापूरुषः कुक्कुरश्च भोजनैकपरायणः।
लालितः पार्श्वमायाति वारितो न च गच्छति॥ 67 ॥
मालिन्यमवलम्बेत यदा दर्पणवत्खलः।
तदैव तन्मुखे देयं रजो नान्या प्रतिक्रिया॥ 68 ॥
नीचः समुत्थितोऽवश्यमनवाप्य पराश्रयम्।
छिद्रं न रतिमाप्नोति दृष्टान्तोऽत्र 12कटीभवः॥ 69 ॥
दुर्जनः परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः।
विध्यते वा कुशल्येन अदृष्टः कण्टको यथा॥ 70 ॥
यथा वृष्टिः समुद्रेषु भुक्तस्योपरि भोजनम्।
एवं प्रीतिः खलैः सार्धमुत्पन्नेऽर्थेऽवसीदति॥ 71 ॥
क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो महान्।
कांस्यस्यैव हि राज्ञोऽपि दर्पणः कनकस्य न॥ 72 ॥
दुर्जनो दूषयत्येव सतां गुणगणं क्षणात्।
मलिनीकुरुते धूमः सर्वथा विमलाम्बरम्॥ 73 ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः।
प्रायः कलङ्क एवेन्दोः प्रस्फुटो न प्रसन्नता॥ 74 ॥
संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलम्।
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः1॥ 75 ॥
प्रायःप्रकुप्यतितरां प्रीत्यैव प्रखलो जनः।
नयनं स्नेहसंपर्कात्कालुष्यं समुपैत्यलम्॥ 76 ॥
प्राप्य वित्तं जडास्तूर्णं निर्वृतिं यान्ति नान्यथा।
तोयमासाद्य गर्जन्ति न रिक्ताः 2स्तनयित्नवः॥ 77 ॥
सदा खण्डनयोग्याय तुषपूर्णाशयाय च।
नमोऽस्तु बहुबीजायखलायोलूखलाय च॥ 78 ॥
जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः।
तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः॥ 79 ॥
अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः।
स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः॥ 80 ॥
खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः।
सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति॥ 81 ॥
सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः।
जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते॥ 82 ॥
मायामयः प्रकृत्यैव रागद्वेषमदाकुलः।
महतामपि मोहाय संसार इव दुर्जनः॥ 83 ॥
खचित्रमपि मायावी रचयत्येव लीलया।
लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः॥ 84 ॥
खलेन धनमत्तेन नीचेन प्रभविष्णुना।
पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि॥ 85 ॥
ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतम्।
वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव॥ 86 ॥
अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः।
अन्यद्वचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितम्॥ 87 ॥
खलेषु सत्सु निर्याता वयमर्जयितुं गुणान्।
इयं सा तस्करग्रामे रत्नक्रयविडम्बना॥ 88 ॥
वर्धेते स्पर्धयेवोभौ संपदा शतशाखया।
अङ्कुरोऽवस्करोद्भूतः पुरुषश्चाकुलोद्भवः॥ 89 ॥
यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिम्।
तदसन्तो हसन्तोऽपि हेलयैव हि कुर्वते॥ 90 ॥
गुणदोषावशास्त्रज्ञः कथं विभजते जनः।
किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु॥ 91 ॥
प्रायः प्रकाशतां याति मलिनः साधुबाधया।
नाग्रसिष्यत चेदर्कं कोऽज्ञास्यत्सिंहिकासुतम्॥ 92 ॥
प्रायः परोपतापाय दुर्जनः सततोद्यतः।
अवश्यकरणीयत्वान्न कारणमपेक्षते॥ 93 ॥
यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः।
विश्रम्य तं द्रुमं हन्ति तथानीचः स्वमाश्रयम्॥ 94 ॥
चारुता परदारार्थं धनं लोकोपतप्तये।
प्रभुत्वं साधुनाशाय खले खलतरा गुणाः॥ 95 ॥
परोपकारविज्ञानमात्रलाभोपजीविनाम्।
दाशानामिव धूर्तानां जालाय गुणसंग्रहः॥ 96 ॥
करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः।
दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः॥ 97 ॥
सत्यधर्मच्युतात् पुंसः क्रुद्धादाशीविषादिव।
नास्तिकोऽपि ह्युद्विजते जनः किं पुनरास्तिकः॥ 98 ॥
येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः।
कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः॥ 99 ॥
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान्।
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः॥ 100 ॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते।
यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनम्॥ 101 ॥
अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः।
नैष लाभो भुजंगेन वेष्टितो यन्न दृश्यते॥ 102 ॥
लुब्धः स्तब्धोऽनृजुर्मूर्खः प्रभुरेकान्तदारुणः।
बहूनेष खलः साधून्मारयित्वा मरिष्यति॥ 103 ॥
का खलेन सह स्पर्धा सज्जनस्याभिमानिनः।
भाषणं भीषणं साधुदूषणं यस्य भूषणम्॥ 104 ॥
मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः।
दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः॥ 105 ॥
निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम्।
चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः॥ 106 ॥
यथा परोपकारेषु नित्यं जागर्ति सज्जनः।
तथा परापकारेषु जागर्ति सततं खलः॥ 107 ॥
बिभेति पिशुनान्नीचः प्रकाशनपटीयसः।
न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः॥ 108 ॥
वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः।
दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात्॥ 109 ॥
जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा।
दुर्जनो यन्मृतः कुर्यात्परेभ्योऽहितमुत्तरम्॥ 110 ॥
यद्यदिष्टतमं तत्तद्देयं गुणवते किल।
अत एव खलो दोषान्साधुभ्यः संप्रयच्छति॥ 111 ॥
वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः।
न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः॥ 112 ॥
स्वभावेनैव निशितः कृतपक्षग्रहोऽपि सन्।
शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः॥ 113 ॥
दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते।
संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति॥ 114 ॥
नैवात्मनो विनाशं गणयति पिशुनः परव्यसनहृष्टः।
प्राप्य सहस्रविनाशं समरे नृत्यति 1कबन्ध इव॥ 115 ॥
रविरपि न दहति तादृग्यादृक्संदहति वालुकानिकरः2।
अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति॥ 116 ॥
त्यक्त्वापि निजप्राणान्परहितविघ्नं खलः करोत्येव।
कवले पतिता सद्यो 3वमयति खलु मक्षिकान्नभोक्तारम्॥ 117 ॥
कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम्4।
5प्रत्युत हन्तुं यतते 6काकोदरसोदरः खलो जगति॥ 118 ॥
नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम्।
तद्वत्खलजनहृदयं बोधितमपि नैव याति माधुर्यम्॥ 119 ॥
एते स्निग्धतमा इति मा मा क्षुद्रेषु यात विश्वासम्।
7सिद्धार्थानामेषां 8स्नेहोऽप्य9श्रूणि पातयति॥ 120 ॥
गुणिनां गुणेषु सत्स्वपि पिशुनजनो दोषमात्रमादत्ते।
पुष्पे फले विरागी 10क्रमेलकः कण्टकौघमिव॥ 121 ॥
सुजनानामपि हृदयं पिशुनपरिष्वङ्गलिप्तमिह भवति।
पवनः परागवाही रथ्यासु11 वहन्रजस्व12लो भवति॥ 122 ॥
परिपूर्णेऽपि तटाके काकः कुम्भोदकं पिबति।
अनुकूलेऽपि कलत्रे नीचः परदारलम्पटो भवति॥ 123 ॥
दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः।
बालः पयसा दग्धो दध्यति 13फूत्कृत्य भक्षयति॥ 124 ॥
विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः।
यदयं 14नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः॥ 125 ॥
15अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा16 धीः।
17तिमिरे हि18 कौशिकानां रूपं प्रतिपद्यते दृष्टिः॥ 126 ॥
लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति।
भूमिरजो रथ्यादावुत्थापकमेव संवृणुते॥ 127 ॥
उपकृतमनेन सुहृदयमित्यसतामस्ति न क्वचिदपेक्षा।
होतुः स्वहस्तमाश्रितमुद्वृत्तोऽग्निर्दहत्येव॥ 128 ॥
परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः।
सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनः पिशुनः॥ 129 ॥
परिशुद्दामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते।19
20पवनाशिनोऽपि भुजगाः परोपतापं न मुञ्चन्ति॥ 130 ॥
प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे।
ते जयति शस्त्रधारां स्वयमसमर्था शिला छेत्तुम्॥ 131 ॥
शिरसि निहितोऽपि नित्यं यत्नादपि सेवितो 1बहुस्नेहैः।
तरुणीकच इव नीचः कौटिल्यं नैव विजहाति॥ 132 ॥
व्योम्नि स वासं कुरुते चित्रं निर्माति सुन्दरं पवने।
रचयति रेखाः सलिले चरति खले यस्तु सत्कारम्॥ 133 ॥
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव॥ 134 ॥
मृद्धटवत्सुखभेद्यो 2दुःसंधानश्च दुर्जनो भवति।
सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशुसंधेयः॥ 135 ॥
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्।
3लुब्धकधीवरपिशुना 4निष्कारणवैरिणो जगति॥ 136 ॥
रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि।
अथवालं पापात्मन्कृतया कथयापि ते हतया॥ 137 ॥
विध्व5स्तपरगुणानां भवति खलानामतीव मलिनत्वम्।
अन्तरितशशिरुचामपि 6सलिलमुचां 7मलिनिमाभ्यधिकः॥ 138 ॥
परगुह्य8गुप्तिनिपुणं 9गुणमयमखिलैः समीहितं नितराम्।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः॥ 139 ॥
आश्लेषो बालानां भवति खलानां च संभेदः॥ 140 ॥
धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति।
काकानामभिषेकेऽकारणतां 13वृष्टिरनुभवति॥ 141 ॥
यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन।
काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय॥ 142 ॥
यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति।
तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम॥ 143 ॥
14वंशावलम्बनं15 यद्यो विस्तारो16 गुणस्य17 या च नतिः।
तज्जालस्य खलस्य च निजा18ङ्कसुप्तप्रणाशाय॥ 144 ॥
19सुगृहीतमलिनपक्षा 20लघवः 21परभेदिनस्तीक्ष्णाः।
22पुरुषा अपि विशिखा अपि 1गुणच्युताः कस्य न भयाय॥ 145 ॥
2स्वकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि।
द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि॥ 146 ॥
संतापमोहकम्पान् संपादयितुं निहन्तुमपि जन्तून्।
सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव॥ 147 ॥
अर्थग्रहणे न तथा व्यथयति कटुकूजितैर्यथा पिशुनः।
रुधिरादानादधिकं दुनोति कर्णे क्व3णन्म4शकः॥ 148 ॥
क्षुद्रोद्भवस्य 5कटुतां प्रकटयतो विदधतश्च 6मदमुच्चैः।
मधुनोऽधमपुरुषस्य च गरिमा लघिमा च भेदाय॥ 149 ॥
त्यजति च गुणान्सुदूरं 7तनुमपि दोषं निरीक्ष्य गृह्णाति।
मुक्त्वालंकृतकेशान्यूकामिव वानरः पिशुनः॥ 150 ॥
दोषा8लोकननिपुणाः परुषगिरो दुर्जनाश्च घूकाश्च।
दर्शनमपि भयजननं येषामनिमित्तपिशुनानाम्॥ 151 ॥
पिशुनत्वमेव विद्या परदूषणमेव भूषणं येषाम्।
परदुःखमेव सौख्यं शिव शिव ते केन वेधसा सृष्टाः॥ 152 ॥
हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सुजनम्।
दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम्॥ 153 ॥
अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव।
हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि॥ 154 ॥
स्वरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम्।
पिशुनानां पनसानां कोशाभोगोऽप्यविश्वास्यः॥ 155 ॥
वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि।
रसमपि तु न प्रतीच्छति बहुदोषः संनिपातीव॥ 156 ॥
परपरितापनकुतुकी गणयति नात्मीयमपि तापम्।
परहतिहेतोः पिशुनः संदंश इव स्वपीडनं सहते॥ 157 ॥
सगुणापि हन्त विगुणा भवति खलास्याद्विचित्रवर्णापि।
आखुमुखादिव शाटी पदपरिपाटी कवेः कापि॥ 158 ॥
कतिपयदिनपरमायुषि मतकारिणि यौवने दुरात्मानः।
विदधति तथापराधं जन्मैव यथा वृथा भवति॥ 159 ॥
दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम्।
दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति॥ 160 ॥
स्वयमपि 9भूरिच्छि10द्रश्चापलमपि 11सर्वतोमुखं तन्वन्।
तित12उस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः1॥ 161 ॥
पिशुनः खलु सुजनानां खलमेव पुरो निधाय जेतव्यः।
कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः॥ 162 ॥
वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः।
कं भेदयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च॥ 163 ॥
कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय।
यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि॥ 164 ॥
आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान्।
तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्॥ 165 ॥
नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने।
नष्टो गुणोऽगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे॥ 166 ॥
रोगोऽण्डजोऽङ्कुरोऽग्निर्विषमश्वतरो घुणाः क्रिमयः।
प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते॥ 167 ॥
आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने।
खलसंगतस्य कथयत यदि सुस्थितमस्ति किञ्चिदपि॥ 168 ॥
परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु।
कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भनिरतेषु॥ 169 ॥
अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान्।
बालदन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम्॥ 170 ॥
लब्धोदयोऽपि हि खलः प्रथमं स्वजनं नयति सुपरितापम्।
उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति॥ 171 ॥
अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः।
सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति॥ 172 ॥
प्रखला एव गुणवतामाक्रम्य धुरं पुरः प्रकर्षति।
तृणकाष्ठमेव जलधेरुपरि प्लवते न रत्नानि॥ 173 ॥
महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते।
लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरुते॥ 174 ॥
सह वसतामप्यसतां जलरुहलजलवद्भवत्यसंश्लेषः।
दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति॥ 175 ॥
साधयति यत्प्रयोजनमत्रस्तत्तस्य काकतालीयम्।
दैवात्कथमप्यक्षरमुत्किरति घुणोऽपि काष्ठेषु॥ 176 ॥
प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते।
पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण॥ 177 ॥
परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये।
यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय॥ 178 ॥
अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम्।
शिरसा महेश्वरेणापि ननु धृतो वक्र एव शशी॥ 179 ॥
वायुरिव खलजनोऽयं प्रायः पररूपमेति संपर्कात्।
सन्तस्तु रविकरा इव सदसद्योगेऽप्यसंश्लिष्टाः॥ 180 ॥
दूरेऽपि परस्यागसि पटुर्जनो नात्मनः समीपेऽपि।
स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति॥ 181 ॥
साधुष्वेवातिरामरुंतुदाः स्वां विवृण्वते वृत्तिम्।
व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते॥ 182 ॥
अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेऽत्यर्थम्।
कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति॥ 183 ॥
स्वगुणानिव परदोषान्वक्तुं न सतोऽपि शक्नुवन्ति बुधाः।
स्वगुणानिव परदोषानसतोऽपि खलास्तु कथयन्ति॥ 184 ॥
कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि।
तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुताम्॥ 185 ॥
प्रकृतिखलत्वादसतां दोष इव गुणोऽपि बाधते लोकान्।
विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति॥ 186 ॥
मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः।
न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः॥ 187 ॥
उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः।
अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम्॥ 188 ॥
न परं फलति हि किंचित्खल एवानर्थमावहति यावत्।
मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे॥ 189 ॥
स्वार्थनिरपेक्ष एव हि परोपघातोऽसतां व्यसनमेव।
अशनायोदन्या वा विरमति फणिनो न दन्दशतः॥ 190 ॥
एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्चैव।
व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च॥ 191 ॥
शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम्।
धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्॥ 192 ॥
प्रारम्भतोऽतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनम्।
महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम॥ 193 ॥
ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते।
उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः॥ 194 ॥
अगुणकणो गुणराशिर्द्वयमपि दैवेन खलमुखे पतितम्।
प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः॥ 195 ॥
तस्मिन्गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे।
अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय॥ 196 ॥
परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः।
परदोषकथाभिरल्पकः1 स्वजनं तोषयितुं किलेच्छति॥ 197 ॥
2सहजान्धदृशः 3स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः।
4स्वगुणोच्चगिरो 5मुनिव्रताः 6परवर्णग्रहणेष्वसाधवः॥ 198 ॥
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः।
सहसैव समुद्गिरन्त्यमी क्षपयन्त्येव हि तन्मनीषिणः॥ 199 ॥
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः॥ 200 ॥
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः 1सुसंवृतिः।
परवृद्धिभिराहितव्यथः2 स्फुट3निर्भिन्नदुराशयोऽधमः॥ 201 ॥
4अनिराकृततापसंपदं 5फलहीनां 6सुमनोभिरुज्झिताम्।
खलतां 7खलतामिवा8सतीं प्रतिपद्येत कथं बुधो जनः॥ 202 ॥
अपि वेत्ति षडक्षराणि चेदुपदेष्टुं 9शितिकण्ठमिच्छति।
वसनाशनमात्रमस्ति 10चेद्धनदादप्यतिरिच्यते खलः॥ 203 ॥
अहमेव गुरुः11 सुदारुणानामिति12 हालाहल मा स्म तात दृप्यः13।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्॥ 204 ॥
वदने विनिवेशिता भुजङ्गी पिशुनानां 14रसनामिषेण धात्रा।
अनया कथमन्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः॥ 205 ॥
अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण।
विधिना निहितं खलस्य वाचि द्वयमेतद्बहिरेकमन्तरन्यत्॥ 206 ॥
वृहति विषधरा15न्पटीरजन्मा16 शिरसि मषीपटलं दधाति दीपः।
विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः॥ 207 ॥
मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति।
अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव॥ 208 ॥
प्रकटमपि न संवृणोति दोषं गुणलवलम्पट एव 17साधुवर्गः।
अतिपरुषरुषं विनापि दोषैः पिशुनशुनां रुषतां प्रयाति कालः॥ 209 ॥
अन्तर्वाणिं मन्यमानः खलोऽयं पौरो18भाग्यं 19सूक्तिमुक्तासु धत्ते।
20सर्वानन्दिन्यङ्गके कामिनीना21मीर्मं 22मार्गत्येष वै 23बम्भरालिः॥ 210 ॥
बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सज्जनो भवेत्।
स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्क्वचित्॥ 211 ॥
विद्यया विमलयाप्यलंकृतो दुर्जनः 1सदसि मास्तु कश्चन।
साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः॥ 212 ॥
दोषपोषमभियाति परं यो बाधमेति बहुसज्जनयोगात्।
संमतौ विमतिमात्रसहायो दुर्जनो भ्रम इवातिचकास्ति॥ 213 ॥
2उन्नतं पदमवाप्य यो 3लघुर्हेलयैव स पतेदिति ब्रुवन्।
शैलशेखरगतः 4पृषद्गणश्चा5रुमारुतधुतः6 पतत्यधः7॥ 214 ॥
8भग्नकुम्भशकलेन वै मलं बालकस्य जननी व्यपोहति।
तद्वदोष्ठवदनेन दुर्जनो मातृतः शतगुणाधिको भवेत्॥ 215 ॥
एवमेव नहि जीव्यते खलात्तत्र का नृपतिवल्लभे कथा।
पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः॥ 216 ॥
अकरुणत्वम9कारणविग्रहः परधने परयोषिति च 10स्पृहा।
सुजनबन्धुजनेष्व11सहिष्णुता 12प्रकृतिसिद्धमिदं हि दुरात्मनाम्॥ 217 ॥
इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरदेव तत्।
चरितमेतदधीरवितारकं धुरि पयः प्रतिबिम्बमिवासताम्॥ 218 ॥
क्व पिशुनस्य गतिः प्रतिहन्यते दशति दृष्टमपि श्रुतमप्यसौ।
अतिसुदुष्करमव्यतिरिक्तदृक्छ्रुतिभिरप्यथ दृष्टिविषैरिदम्॥ 219 ॥
नमः खलेभ्यः क इवाथवा न तानलं नमस्येदिह यो जिजीविषुः।
विनैव ये दोषमृषिप्रकाण्डवन्नयन्ति शापेन रसातलं नरान्॥ 220 ॥
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते।
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे॥ 221 ॥
तथारिभिर्न व्यथते शिलीमुखैर्हतो दिगन्ते हृदये न दूरतः।
यथा कलानां कुधियां दुरुक्तिभिर्दिवानिशं तप्यति मर्मताडितः॥ 222 ॥
गुणापवादेन तदन्यरोपणाद्भृशाधिरूढस्य समञ्जसं जनम्।
द्विधेव कृत्वा हृदयं निगूहतः स्फुरन्नसाधोर्विवृणोति वागसिः॥ 223 ॥
न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः।
भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति॥ 224 ॥
न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः।
धियं कुमायासमयाभिचारिणीं विदग्धतामेव हि मन्यते खलः॥ 225 ॥
समर्पिताः कस्य न तेन दोषा हठाद्गुणा वा न हृताः खलेन।
तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टोऽपि नैकेन गुणेन चित्रम्॥ 226 ॥
आराध्यमानो बहुभिः प्रकारैर्नाराध्यते नाम किमत्र चित्रम्।
अयं त्वपूर्वः प्रतिभाविशेषो यत्सेव्यमानो रिपुतामुपैति॥ 227 ॥
विद्वानुपालम्भमवाप्य दोषान्निवर्ततेऽसौ परितप्यते च।
ज्ञातस्तु दोषो मम सर्वथेति पापो जनः पापतरं करोति॥ 228 ॥
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय॥ 229 ॥
1सद्वंशजातं 2गुणको3टियुक्तं धनुः कथं पार्थिववामहस्ते।
शरः परप्राणविहारदक्षः सपक्षपातोऽप्यधमो गरीयान्॥ 230 ॥
दृष्टो वा सुकृतशतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा।
दौःशील्याज्जनयति नैव जात्वसाधुर्विस्रम्भं भुजग इवाङ्कमध्यसुप्तः॥ 231 ॥
एकः खलोऽपि यदि नाम भवेत्सभायां मोघीकरोति विदुषां निखिलप्रयासम्।
एकापि पूर्णमुदरं मधुरैः पदार्थैरालोड्य रेचयति हन्त न मक्षिका किम्॥ 232 ॥
हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम्।
व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते 4मनीषाम्॥ 233 ।
ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च।
नीचाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामपि न त्यजन्ति॥ 234 ॥
प्राक्पादयोः पतति खादति पृष्ठमांसं कर्णे कलं किमपि रैति5 शनैर्विचित्रम्।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति॥ 235 ॥
हित्वा मदं सममसज्जनसज्जनौ तौ वन्दे नितान्तकुटिलप्रगुणस्वभावौ।
एकं भिया निरभिसंहितवैरिभावं प्रीत्या परं परमनिर्वृतिपात्रभूतम्॥ 236 ॥
पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः।
हर्षादिवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे परं स्पृशति हन्त्यपरं समूलम्॥ 237 ॥
6उद्भासिताखिलखलस्य 7विशृङ्खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमाप्यते कैः॥ 238 ॥
संवर्धितोऽपि भुजगः पयसा न वश्यस्तत्पालकानपि निहन्ति बलेन सिंहः।
दुष्टः परैरुपकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः॥ 239 ॥
कस्तूरिकां तृणभुजामट8वीमृगाणां निक्षिप्य नाभिषु चकार च तान्वधार्हान्।
मूढो विधिः सकलदुर्जनलोलजिह्वामूले स्म निक्षिपति चेत्सकलोपकारः॥ 240 ॥
रूक्षं विरौति परिकुप्यति निर्निमित्तं स्पर्शेन दूषयति वारयति प्रवेशम्।
लज्जाकरं दशति नैव च तृप्यतीति कौलेयकस्य च खलस्य च को विशेषः॥ 241 ॥
युक्तं यया किल निरन्तरलब्धवृत्तेरस्याभिमानतमसः प्रसरं निरोद्धुम्।
विद्वत्तया जगति तामवलम्ब्य केचित्तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यम्॥ 242 ॥
प्रायः स्वभावमनिलो महतां समीपे तिष्ठन्खलः प्रकुरुतेऽर्थिजनोपघातम्।
शीलार्दितैः सकललोकसुखावहोऽपि धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः॥ 243 ॥
धूमः पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः शमयति ज्वलनस्य तेजः।
दैवादवाप्य कलुषप्रकृतिर्महत्त्वं प्रायः स्वबन्धुजनमेव तिरस्करोति॥ 244 ॥
नाश्चर्यमेतदधुना हतदैवयोगादुच्चैः स्थितिर्यदधमो न महानुभावः।
रथ्याकलङ्कशतसंकरसंकुलोऽपि पृष्ठे भवत्यवकरो न पुनर्निधानम्॥ 245 ॥
बिसमलमशनाय स्वादु पानाय तोयं शयनमवनिपृष्ठे वल्कले वाससी च।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयमनुमन्तुं नोत्सहे दुर्जनानाम्॥ 246 ॥
मलयभुवि विरूढश्चन्दनेनाभिवृद्धो न भजति किल वेणुः सौरभं चन्दनस्य।
तदिह नहि विचित्रं सर्वदोषाकराणां नहि भवति खलानां साधुतागन्धलेशः॥ 247 ॥
हसति लसति हर्षात्तीव्रदुःखे परेषां स्खलति गलति मोहादात्मनः क्लेशलेशे।
नदति वदति निन्द्यं मानिनां किं च नीचः परुषवचनमल्पं श्रावितो हन्तुमेति॥ 248 ॥
दिगन्ते खेलन्ती सरसहृदयानन्दजननी मया नीता दुष्टप्रचुरनगरीं कापि कविता।
अकस्मादुन्मीलत्खलवदनवल्मीकरसनाभुजंगीदष्टाङ्गी शिव शिव समाप्तिं गतवती॥ 249 ॥
अभूदम्भोराशेः सह वसतिरासीत्कमलया गुणानामाधारो नयनफलमिन्दुः प्रथयति।
कथं सिंहीसूनुस्तमपि तुदति प्रौढदशनैर्गुणानामास्वादं पिशुनरसना किं रसयति॥ 250 ॥
वृथा दुग्धोऽनड्वान्स्तनभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यसहिता।
कृता वैदूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमताम्॥ 251 ॥
स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा।
शरः प्राप्नोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजोर्वक्त्राश्लेषाद्भवति खलु सुव्यक्तमशुभम्॥ 252 ॥
गुणानां सा शक्तिर्विपदमनुबध्नन्ति यदमी प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत्।
विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ॥ 253 ॥
अवेक्ष्य स्वात्मानं विगुणमपरानिच्छति तथा फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः।
निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा विधिकृता॥ 254 ॥
न विषममृतं कर्तुं शक्यं प्रयत्नशतैरपि त्यजति कटुतां न स्वां निम्बः स्थितोऽपि पयोह्रदे।
गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः॥ 255 ॥
यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने न हि परयशो निन्दाव्याजैरलं परिमार्जितुम्।
विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान्पाणिच्छत्रैर्नदञ्श्रममेष्यसि॥ 256 ॥
शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं जनयति जनोद्वेगायासं नयत्युपहास्यताम्।
भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं क्षिपति सकलं कल्याणानां कुलं खलसंगमः॥ 257 ॥
1जिह्मो लोकः कथयति पुरा हन्त हित्वा गुणौघानम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य।
विश्वे छिद्रानुसरणसमारूढसर्वेन्द्रियाणां दोषे दृष्टिः पिशुनमनसां नानुरागो गुणेषु॥ 258 ॥
सन्तः सच्चरितोदयव्यसनिनः 2प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा।
3अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः 4प्राकृतः॥ 259 ॥
या लोभात्सविधे5 खलस्य सुरसा वाणी बुधैर्नीयते नो जानाति स तामचेतनतया सैव स्वयं लीयते।
भर्तुः स्नेहचयात्प्रविश्य दहने भस्मीभवत्यङ्गना गाढालिङ्गनतत्परेण मनसा प्रेतो न वेत्ति प्रियाम्॥ 260 ॥
नागच्छन्नुपहूयते न वचनोत्थानासनैः पूज्यते नो पृच्छन्ननुभाष्यते न च दृशा सान्द्रादरं वीक्ष्यते।
ईर्ष्यावेशकषायिते हृदि घृणालेशोऽपि न स्पृश्यते किं त्वेकः प्रवदन्समञ्जसमपि प्राज्ञः शठैर्हस्यते॥ 261 ॥
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः।
अन्तर्भूतविषो बहिर्मधुमयश्चातीव 6मायापटुः को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः॥ 262 ॥
जाड्यं 7ह्रीमति गण्यते 8व्रतरुचौ दम्भः शुचौ कैतवं9 शूरे निर्घृणता10 1मुनौ विमतिता 2दैन्यं प्रियालापिनि।
तेजस्विन्य3वलिप्तता 4मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः॥ 263 ॥
5पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै 6सृणिः।
इत्थं तद्बुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि 7भग्नोद्यमः॥ 264 ॥
धातस्तात तदैव दूषणमिदं यन्नाम कस्तूरिका 8कान्तारान्तरचारिणां तृणभुजां यन्नाभिमूले कृता।
यद्येवं प9शुनस्य हन्त 10रसनामूलेऽकरिष्यस्तदा 11प्रायासेन विनाभविष्यदतुला कीर्तिश्च निर्दोषता॥ 265 ॥
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥ 266 ॥
नारीणां वचनेन कर्म कुरुते दीनं वचो भाषते नालस्यं विजहापि तिग्मकिरणे प्रौढे समुत्तिष्ठति।
किंचित्क्वापि न साहसं वितनुते देहे चिरं दूयते नो वा विन्दति पौरुषं कुपुरुषः कोऽप्येव निर्मीयताम्॥ 267 ॥
वक्रत्वं ननु कुन्तलादिव मुखे तैक्ष्णं कटाक्षादिव क्रूरत्वं कुचमण्डलादिव सुनर्घृण्यं स्वचित्तादिव।
मालिन्यं नयनाञ्जनादिव किलाधैर्यं स्वभावादिव स्वैरण्यैव सुशिक्षितोऽसि खल किं जातोऽस्यतोऽरुंतुदः॥ 268 ॥
वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः।
तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते॥ 269 ॥
कस्त्वं भद्र 12खलेश्वरोऽहमिह किं घोरे वने स्थीयते 13शार्दूलादिभिरेव 14हिंस्रपशुभिः 15खाद्योऽहमित्याशया।
कस्मात्कष्टमिदं त्वया व्यवसितं मद्देहमांसाशिनः प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान्नरान्॥ 270 ॥
भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह।
वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य कान्या गतिः॥ 271 ॥
वेश्यावेश्मसु सीधुगन्धललनावक्त्रासवामोदितैर्नीत्वा निर्भरमन्मथोत्सवसुखैरुन्निद्रचन्द्राः क्षपाः।
सर्वज्ञा इति दीक्षिता इति चिरात्प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तैर्जगद्वञ्च्यते॥ 272 ॥
वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेऽनुकम्पोक्तिभिर्व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः।
गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः॥ 273 ॥
पाकश्चेन्न शुभस्य मेऽद्य तदसौ प्रागेव नादात्किमु स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम्।
मत्तो रन्ध्रदृशोऽस्य भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तः पुरुषोऽधमः कलयति प्रायः कृतोपक्रियः॥ 274 ॥
साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याञ्चोत्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः।
ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिचारं यशः सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं कलेः॥ 275 ॥
वर्णस्थं गुरुलाघवं न गणयत्याशङ्कते न क्वचिद्रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः।
कष्टं नायशसो बिभेति महतो नैवापशब्दान्तरान्मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरस्य तुल्यक्रियाः॥ 276 ॥
वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान्।
गुह्यानि प्रकटीकरोति घटयन्यत्नेन वैराशयं ब्रूते शीघ्रमवाच्यमुज्झति गुणान् गृह्णाति दोषान्खलः॥ 277 ॥
कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं तन्नम्राङ्गतया वदन्ति करुणं यस्मात्त्रपावान्भवेत्।
श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृद्ये केचिन्ननु शाठ्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः॥ 278 ॥
भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्गोष्ठश्वा स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटम्।
पिण्डीशूरतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोऽन्यत्र ते॥ 279 ॥
भिक्षो कन्था श्लथा ते नहि शफरिवधे जालमश्नासि मत्स्यांस्ते वै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम्।
दत्त्वाङ्घ्रिं मूर्ध्न्यरीणां तव किमु रिपवो भित्तिभेत्तास्मि येषां चोरोऽसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः॥ 280 ॥
दैवादप्युत्तमानामपहरति यदा दुर्जनो वा कथंचिन्मानं नाप्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम्।
स्वर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मेर्मरीचीन्ब्रह्माण्डस्येह खण्डे तदपि नरपते किं ग्रहेशत्वमेति॥ 281 ॥
हे पक्षिन्नागतस्त्वं कुत इह रसकस्तत्कियद्भो विशालं किं मद्धाम्नोऽपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या।
इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो भवति हि विषमो नापराधेन हृष्टः॥ 282 ॥
आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः।
भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा॥ 283 ॥
-
अन्त्यवर्णः ‘खल’ इति. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
उपानहा पादस्थचर्मणा मुखभङ्गः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
बहु-निष्कपट-द्रोही; [पक्षे] बहु-निष्क-पट-द्रोही इति पदच्छेदः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
बहुधा-अन्योपघातकः; [पक्षे] बहु-धान्य-उपघातकः इति पदच्छेदः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
परेषां प्रकर्षेण तारणायः; [पक्षे] परेषां वञ्चनाय. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
परान् भेदयन्ति ते. अन्येषां परस्परभेदजननेन कलहप्रवर्तका इत्यर्थः; [पक्षे] इतरच्छेदकारकाः ↩︎ ↩︎
-
मक्षिका. ↩︎