अहो किमपि चित्राणि चरित्राणि महात्मनाम्।
लक्ष्मीं तृणाय मन्यन्ते 1तद्भरेण नमन्त्यपि॥ 1 ॥
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः2।
येषां भुवनलाभेऽपि निःसीमानो मनोरथाः॥ 2 ॥
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम्।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा॥ 3 ॥
वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥ 4 ॥
गवादीनां पयोऽन्येद्युः3 सद्यो वा जायते दधि।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः4 कुतः॥ 5 ॥
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च हन्ति सन्तो महाशयाः॥ 6 ॥
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः।
मार्गद्रुमा महान्तश्च परेषामेव भूतये॥ 7 ॥
संपदो महतामेव महतामेव चापदः।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित्॥ 8 ॥
अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम्।
और्वं दहन्तमेवाग्निं संतर्पयति सागरः॥ 9 ॥
महतां प्रार्थनेनैव विपत्तिरपि शोभते।
दन्तभङ्गो हि नागानां 5श्लाघ्यो गिरि6विदारणे॥ 10 ॥
गुणग्रामाविसम्वादि नामापि हि महात्मनाम्।
यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः॥ 11 ॥
वहन्ति शोकशङ्कुं च कुर्वन्ति च यथोचितम्।
कोऽप्येष महतां हन्त गम्भीर्यानुगुणो गुणः॥ 12 ॥
नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी।
गुणी च गुणरागी च विरलः सरलो जनः॥ 13 ॥
महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः॥ 14 ॥
मुखेन नोद्गिरत्यूर्ध्वं हृदये न नयत्यधः।
7जरयत्यन्तरे साधुर्दोषं विषमिवेश्वरः॥ 15 ॥
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः।
आवेष्टितं महासर्पैश्चन्दनं न विषायते॥ 16 ॥
मान्या एव हि मान्यानां मानं कुर्वन्ति नेतरे।
शंभुर्बिभर्ति मूर्ध्नेन्दुं 8स्वर्भानुस्तं 1जिघृक्षति॥ 17 ॥
सुजनं व्यजनं मन्ये चारुवं2शसमुद्भवम्।
आत्मानं च परिभ्राम्य परतापनिवारणम्॥ 18 ॥
उदये सविता रक्तो रक्तश्चास्तमये तथा।
सम्पत्तौ च विपत्तौ च महतामेकरूपता॥ 19 ॥
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः॥ 20 ॥
सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्।
असद्भिः शपथेनापि जले लिखितमक्षरम्॥ 21 ॥
9हरेः 10पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम्।
स्पर्धापि विदुषा युक्ता न युक्ता मूर्खमित्रता॥ 22 ॥
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्11।
नहि तापयितुं शक्यं सागराम्भस्तृणोल्कया॥ 23 ॥
नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः।
अन्ये बदरिकाकारा बहिरेव मनोहराः॥ 24 ॥
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम्।
भङ्गेनापि मृणालानाम3नुबध्नन्ति तन्तवः॥ 25 ॥
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
धर्मे स्वीयमनुष्ठानं कस्यचित्सुमहात्मनः॥ 26 ॥
सम्पुत्सु महतां चित्तं भवत्युत्पलकोमलम्।
आपत्सु च महाशैलशिलासङ्घातक4र्कशम्॥ 27 ॥
पतन्ति व्यसने दैवाद्दारुणे दारुणात्मनि।
सम्वर्णयति वज्रेण धैर्येण महतां मनः॥ 28 ॥
सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम्।
आमोदो नहि कस्तूर्याः शपथेन विभाव्यते॥ 29 ॥
पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः।
प्रायेण हि सुवृत्तानाम5स्थायिन्यो विपत्तयः॥ 30 ॥
सकृत्कन्दुकपातेनोत्पतत्यार्यः पतन्नपि।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा॥ 31 ॥
दन्तिदन्तसमानं हि निःसृतं महतां वचः।
कूर्मग्रीवेण नीचानां पुनरायाति याति च॥ 32 ॥
श्लोकस्तु श्लोकतां याति यत्र तिष्ठन्ति साधवः।
6लकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः॥ 33 ॥
किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः।
नहि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः॥ 34 ॥
काकैः सह विवृद्धस्य कोकिलस्य 7कला गिरः।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः॥ 35 ॥
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः।
चित्ते वाचि क्रियायां च साधूनामेकरूपता॥ 36 ॥
विवेकः सह सय्यत्या विनयो विद्यया सह।
प्रभुत्वं 8प्रश्रयोपेतं चिह्नमेतन्महात्मनाम्॥ 37 ॥
उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहम1कृत्रिमम्।
सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः॥ 38 ॥
निर्गुणेष्वपि 2सत्त्वेषु दयां कुर्वन्ति साधवः।
नहि सम्हरते 9ज्योत्स्नां चन्द्रश्चा10ण्डालवेश्मसु॥ 39 ॥
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते॥ 40 ॥
हृदयानि सतामेव कठिनानीति मे मतिः।
खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न 11मनाग्यतः॥ 41 ॥
अपेक्षन्ते न च 12स्नेहं न 13पात्रं न 14दशान्तरम्।
सदा15लोकहिते युक्ता रत्नदीपा इवोत्तमाः॥ 42 ॥
ब्रूतेऽन्यस्यासतोऽप्यार्यो गुणान्दोषांस्तु दुर्जनः।
तुल्येऽप्यसत्त्वे किं त्वेको गच्छत्यूर्ध्वमधोऽपरः॥ 43 ॥
सन्तो मनसि कृत्वैव प्रवृत्ताः कृत्यवस्तुनि।
कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः॥ 44 ॥
आमरणान्ताः प्रणया कोपास्तत्क्षणभङ्गुराः।
परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥ 45 ॥
सन्त एव सतां नित्यमापदुद्धरणक्षमाः।
गजानां पङ्कमग्नानां गजा एव धुरंधराः॥ 46 ॥
नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ।
किं त्विन्दोः सोदरः पूर्वः कालकूटस्य चेतरः॥ 47 ॥
गोत्र3स्थितिं न मुञ्चन्ति सदा 4सन्नतिमाश्रिताः।
5उदन्वन्तश्च सन्तश्च महा6सत्त्वतयानया॥ 48 ॥
विगृहीतः पदाक्रान्तो भूयो भूयश्च खण्डितः।
माधुर्यमेवावहति सुश्लोक इव सज्जनः॥ 49 ॥
प्रकृतिप्रत्ययोपेतः सद्वृत्तः साधुसंमतः।
अर्थार्पणसमर्थश्च सुश्लोक इव सज्जनः॥ 50 ॥
गुणोऽपि नूनं दोषाय दुषिधातोः खलस्य च।
सन्मार्गसिद्धये वृद्धिर्मृजेः साधुजनस्य च॥ 51 ॥
मुञ्चन्तश्चापलरसं प्रस्तिताः पावने पथि।
घना इवार्द्रहृदयाः सन्तो जीवनहेतवः॥ 52 ॥
धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः।
प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः॥ 53 ॥
साधुरेव प्रवीणः स्यात् सद्गुणामृतचर्वणे।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल॥ 54 ॥
उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः।
मणिरेव महाशाणघर्षणं न तु मृत्कणः॥ 55 ॥
सज्जना एव साधूनां प्रथयन्ति गुणोत्करम्।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः॥ 56 ॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम्।
न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः॥ 57 ॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशम्।
सुकुमारं मधौ पत्रं तरोः स्यात् कठिनं शुचौ॥ 58 ॥
स्वभावं न जहात्येव साधुरापद्गतोऽपि सन्।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम्॥ 59 ॥
अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम्।
विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः॥ 60 ॥
विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः।
स्ववर्णबन्धान्नो शुद्धिर्ज्ञायते कर्षणं विना॥ 61 ॥
दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः।
आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलम्॥ 62 ॥
क्षयक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः।
सन्त्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम्॥ 63 ॥
उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलम्।
राहुग्रसनसम्भूतिः क्षणं विच्छाययेद्विधुम्॥ 64 ॥
प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसताम्।
चण्डाश्चण्डातपात्पादा हिमांशोरमृतसृजः॥ 65 ॥
तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः।
न दाहे ज्वलतोर्भिन्नं चन्दनेन्धनयोः क्वचित्॥ 66 ॥
महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः।
अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः॥ 67 ॥
आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया॥ 68 ॥
न गुणा) क्वापि पूज्यन्ते सत्स्वीकारो हि गौरवम्।
पीतिमा गुणसाम्येऽपि हरिद्रास्वर्णयोरिव॥ 69 ॥
आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम्।
इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत्॥ 70 ॥
काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः।
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः॥ 71 ॥
दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि।
शक्तो वादी न तत्तथ्यं दोषा दोषा गुणा गुणाः॥ 72 ॥
गुणराशिमहाभारनिर्भरापूरितान्तराः।
सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम्॥ 73 ॥
स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः।
स्वयं प्रख्याप्यमानोऽपि यस्तृणाय न मन्यते॥ 74 ॥
सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः।
साधोः स्तनयुगस्येव पतनं कस्य तुष्टये॥ 75 ॥
च्युतोऽप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः।
कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी॥ 76 ॥
नालोकः क्रियते सूर्ये भूः प्रतीतं न धार्यते।
नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते॥ 77 ॥
दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः।
सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता॥ 78 ॥
सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः।
तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः॥ 79 ॥
लाभप्रणयिनो नीचा मानकामा मनस्विनः।
मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता॥ 80 ॥
परदुःखं समाकर्ण्य स्वभावसरलो जनः।
उपकारासमर्थत्वात् प्राप्नोति हृदये व्यथाम्॥ 81 ॥
वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता।
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम्॥ 82 ॥
न कदाचित्सतां चेतः प्रसरत्यघकर्मसु।
जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत्॥ 83 ॥
सागसेऽपि न कुप्यन्ति कृपया चोपकुर्वते।
बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः॥ 84 ॥
साभिमानमसंभाव्यमौचित्यच्युतमप्रियम्।
दुःखावमानदीनं वा न वदन्ति गुणोन्नताः॥ 85 ॥
आपत्स्वेव हि महतां शक्तिर3भिव्यज्यते न संपत्सु।
अगुरोस्तथा न गन्दः प्रागस्ति यथाग्निपतितस्य॥ 86 ॥
शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः।
विवराणि मुद्रयन्द्रागू4र्णायुरिव सज्जनो जयति॥ 87 ॥
तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु।
निभृतं3 यदुपक्रियते तदपि महान्तो वहन्त्युच्चैः॥ 88 ॥
सम्पदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम्।
तं भुवनत्रयतिलकं4 जनयति जननी सुतं विरलम्॥ 89 ॥
दुर्जनवचनाङ्गारैर्दग्धोऽपि न विप्रियं5 वदत्यार्यः।
अगुरुरपि दह्यमानः स्वभावगन्धं परित्यजति किं नुः॥ 90 ॥
अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः।
परपरि6वादनिवृत्तैः क्वचित्क्वचिन्म7ण्डिता वसुधा॥ 91 ॥
पतितोऽपि राहुवदने 8तरणिर्बोध1यति पद्मखण्डानि।
भवति विपद्यपि2 महतामङ्गीकृतवस्तुनिर्वाहः॥ 92 ॥
छिन्नोऽपि रोहति तरुश्चन्द्रः क्षीणोऽपि वर्धते लोके।
इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेऽस्मिन्॥ 93 ॥
वासरगम्यमनूरोरम्बरमवनी9 च वामनैकपदा।
जलधिरपि पो10तलङ्घ्यः सतां मनः केन तुलयामः॥ 94 ॥
गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम्।
जीर्यति कर्मे महतां दुर्वादो नाल्पमपि विशति॥ 95 ॥
निज11पदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च।
वहतामपि 12महिमानं शोभायै 13सज्जना एव॥ 96 ॥
14बाणं हरिरिव कुरुते सुजनो 15बहुदोषमप्य16दोषमिव।
17यावद्दोषं 18जाग्रति 19मलिम्लुचा इव पुनः पिशुनाः॥ 97 ॥
20महतोः सुवृत्तयोः21 सखि 22हृदयग्रहयोग्ययोः समस्थितयोः।
सज्जनयोः स्तनयोरपि निरन्तरं सङ्गतं भवति॥ 98 ॥
23महतोऽपि हि विश्वासान् महाशया24 दधति नाल्पमपि लाघवः।25
सम्वृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि॥ 99 ॥
वैगुण्येऽपि हि महतां विनिर्मितं भवति कर्म शोभायै।
दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम्॥ 100 ॥
सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा।
न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः॥ 101 ॥
भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य।
वहति विरकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः॥ 102 ॥
वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः।
करणं परोपकरणं येषां केषां न ते वन्द्याः॥ 103 ॥
उपकारमेव तनुते विपद्गतः सद्गणो महताम्।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः॥ 104 ॥
गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मनः॥ 105 ॥
अनवरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव॥ 106 ॥
न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवादी।
कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम्॥ 107 ॥
इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः।
तद्वत्सज्जनमैत्री विपरीतानां च विपरीता॥ 108 ॥
3उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम्।
यास्तेषां स्वैरकथास्ता4 एव भवन्ति शास्त्राणि॥ 109 ॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि।
छेदेऽपि चन्दनतरुः 5सुरभयति मुखं 6कुठारस्य॥ 110 ॥
अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम्॥ 111 ॥
7अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः।
विदधाति8 रन्ध्रमेको 1गुणवानन्यस्तु 2पिदधाति॥ 112 ॥
आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः।
सन्तापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते॥ 113 ॥
शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो9 मेघः।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव॥ 114 ॥
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु॥ 115 ॥
तदपकृतं विधिनार्थिषु यत्सन्तः स्वल्पसम्पदो विहिताः।
तुच्छे पयसि घनानां सीदति बत जीवलोकोऽयम्॥ 116 ॥
अमृतं 10किरति हिमांशुर्विषमेव फणी समुद्गिरति।
गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति॥ 117 ॥
गुणिनामपि निजरूपप्रतिपत्तिः परत एव सम्भवति।
स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात्॥ 118 ॥
उत्कर्षवान्निजगुणो11 यथा यथा याति 12वर्णमन्यस्य।
धनुरिव संवुश13जन्मा तथा तथा सज्जनो नमति॥ 119 ॥
दुर्जनवदनविनिर्गतवचनभुजङ्गेन सज्जनो दष्टः।
तद्विषनाशनिमित्तं साधुः संतोषमौषधं पिबति॥ 120 ॥
कमठकुलाचलदिग्गजफणिपतिविधृतापि चलति वसुधेयम्।
प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि॥ 121 ॥
अन्तः कटुरपि लघुरपि सद्वृत्तं यः पुमान्न सन्त्यजति।
स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य॥ 122 ॥
अद्यापि दुर्निवारं 3स्तुतिकन्या भजति कौमारम्4।
सद्भ्यो न रोचते सा सन्तोऽप्यस्यै न रोचन्ते॥ 123 ॥
मूकः परापवादे परदारनिरीक्षणेऽप्यन्धः।
पङ्गुः परधनहरणे स जयति लोकत्रये पुरुषः॥ 124 ॥
पेशलमपि5 खलवचनं दहतितरां मानसं सुतत्त्वविदाम्।
परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति॥ 125 ॥
भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे।
चिन्ता यशसि न वपुषि प्रायः परिदृस्यते महताम्॥ 126 ॥
उपरि 6करवालदाराकाराः क्रूरा भुजङ्गमपुङ्गवाः।
अन्तः साक्षाद्द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः॥ 127 ॥
स्वस्थानादपि विलचति मज्जति जलधौ च नीचमपि भजते।
निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव॥ 128 ॥
दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति।
प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः॥ 129 ॥
विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः।
क्षारं पिबति पयोधेर्वर्षत्यम्भोधरो मधुरमम्भः॥ 130 ॥
खलसख्यं प्राङ्मधुरं नयोऽन्तराले निदाघदिनमन्ते।
एकादिमध्यपरिणतिरमणीया साधुजनमैत्री॥ 131 ॥
न विमोचयितुं शक्यः क्षमां महान्मोचितो यदि कथंचित्।
मन्दरगिरिरिव हि तलं निवर्तते न तु स समवाप्य॥ 132 ॥
स्वाधीनैव समृद्धिर्जनोपजीव्यत्वमुच्छ्रयश्छाया।
सत्पुंसो मरुभूरिव जीवनमात्रं समाशास्यम्॥ 133 ॥
सर्वस्य सर्वदापि स्पर्शनयोगेन तापमपनेतुम्।
सुजनस्य व्यजनस्य च शक्तिमसङ्गृह्णतः पश्य॥ 134 ॥
किं मधुना किं विधिना किं 7सुधया किं च वसुधयाखिलया।
यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोर8यनम्॥ 135 ॥
ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः।
यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते॥ 136 ॥
स्वल्पापि साधुसम्पद्भोग्या महतां न पृथ्व्यपि खलश्रीः।
सारसमेव पयस्तृषमपहरति न वारिधेर्जातु॥ 137 ॥
दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतम्।
तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणाम्॥ 138 ॥
विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति।
न पिबन्ति भौममम्भः सरजसमिति चातका एते॥ 139 ॥
योग्यतयैव विनाशं प्रायोऽनार्येषु यान्ति गुणवन्तः।
स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते॥ 140 ॥
निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः।
सह वृद्धिक्षयभाजं वहति शशाङ्गः कलङ्कमपि॥ 141 ॥
अन्त्यावस्थोऽपि बुधः स्वगुणं न जहाति जातिशुद्धतया।
न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि॥ 142 ॥
साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानाम्।
किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानाम्॥ 143 ॥
स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः।
त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः॥ 144 ॥
गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोऽपि।
विमलेक्षणप्रसङ्गादञ्जनमाप्नोति काणाक्षि॥ 145 ॥
सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वम्।
परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु॥ 146 ॥
उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः।
जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन॥ 147 ॥
उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम्।
अभिसन्धातुं च गुणैः शतेषु केचिद्विजानन्ति॥ 148 ॥
मा भूत्सज्जनयोगो यदि योगो मा पुनः स्नेहः।
स्नेहो यदि विरहो मा यदि विरहो जीविताशा का॥ 149 ॥
अम्बरमनूरुलङ्घ्यं वसुन्धरा सापि वामनैकपदा।
अब्धिरपि पोतलङ्घ्यः3 सतां मनः केन तुल्यं स्यात्॥ 150 ॥
किमपेक्ष्य फलं पयोधरान्ध्वनतः4 प्रार्थयते मृगाधिपः।
5प्रकृतिः खलु सा महीयसः सहते नान्यस6मुन्नतिं यया॥ 151 ॥
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः7।
किमपैति 8रजोभिरौर्वरैर1वकीर्णस्य मणेर्महार्घता॥ 152 ॥
प्रकटान्यपि नैपुणं2 महत्परवाच्यानि9 चिराय गोपितुम्।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम्॥ 153 ॥
किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः।
10वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम्॥ 154 ॥
विसृजन्त्य11विकत्थिनः परे विषमाशीवि12षवन्नराः क्रुधम्।
दधतोऽन्त13रसारूपतां ध्वनिसाराः पटहा इवेतरे॥ 155 ॥
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता॥ 156 ॥
इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया॥ 157 ॥
सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि।
अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम्॥ 158 ॥
आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने।
छेदतापवविघर्षताडनैर्नान्य3भावमुपयाति 4काञ्चनम्॥ 159 ॥
चातकस्त्रिचतुरान् पयःकणान्याचते जलधरं पिपासया।
सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदाहता॥ 160 ॥
दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः।
क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः॥ 161 ॥
सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम्।
अन्यदेहविलसत् परितापात् सज्जनो द्रवति नो नवनीतम्॥ 162 ॥
उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः।
अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः॥ 163 ॥
तुङ्गात्मनां तुङ्गतराः समर्था मनोरथान् पूरयितुं न नीचाः।
धाराधरा एव धराधराणां निदाघदाहं 5शमितुं न नद्यः॥ 164 ॥
प्रकाममभ्यस्य तु नाम विद्यां सौजन्यमभ्यासवशादलभ्यम्।
कर्णौ सपत्न्यः प्रविशालयेयुर्विशालयेदक्षियुगं न कोऽपि॥ 165 ॥
सन्तोऽपि सन्तः क्व किरन्तु तेजः क्व न ज्वलन्तु क्व ननु प्रथन्ताम्।
विधाय रुद्धा ननु वेधसैव ब्रह्माण्डकोषे घटदीपकल्पाः॥ 166 ॥
प्रसादमाधुर्यगुणोपपन्ना यत्नादनौचित्यपराङ्मुखाणाम्।
अर्थाः कवीनामिव सज्जनानां सर्वस्य सर्वावसरोपयोगाः॥ 167 ॥
वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति।
एवं कुलीना 6व्यसनाभिभूता न नीचकर्माणि समाचरन्ति॥ 168 ॥
अहो महत्त्वं महतामपूर्वं7 विपत्तिकालेऽपि परोपकारः।
यथा8स्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं1 ददाति॥ 169 ॥
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति 2सस्यं खलु 9वारिवाहाः परोपकाराय सतां विभूतयः10॥ 170 ॥
रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति।
श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः॥ 171 ॥
श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः।
यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद्विमुखाः प्रयान्ति॥ 172 ॥
सन्तस्तृणोत्सारणमुत्त11माङ्गात् सुवर्णकोट्यर्पणमामनन्ति।
प्राणव्यये वापि कृतोपकाराः खलाः परे वैरमिहोद्वहन्ति॥ 173 ॥
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव॥ 174 ॥
क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति।
सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्गिरन्ति॥ 175 ॥
अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम्।
सुधां सुरेशः स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल॥ 176 ॥
कर्णे जपानां वचनप्रपञ्चान् महात्मनः क्वापि न दूषयन्ति।
भुजंगमानां गरलप्रसङ्गान्नापेयतां यान्ति महासरांसि॥ 177 ॥
अपांनिधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति।
ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः॥ 178 ॥
दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय।
परोपकाराय वचांसि यस्य वन्द्यस्त्रि3लोकी तिलकः स एकः॥ 179 ॥
न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः।
द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करापि॥ 180 ॥
दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु भवन्ति केचित्।
चिरव्यतीतान्यपि पूर्वजान्ये प्रकाशयन्ति स्वगुणप्रकर्षात्॥ 181 ॥
व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम्।
गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः॥ 182 ॥
वन्द्यः स पुंसां त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभिः।
संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम्॥ 183 ॥
किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।
स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥ 184 ॥
चिराय सत्संगमशुद्धमानसो न यात्यसत्संगतमात्मवान्नरः।
मनोहरेन्दीवरखण्डगोचरो न जातु भृङ्गः कुणपे निलीयते॥ 185 ॥
इदं हि माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः।
मनो यदेषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम्॥ 186 ॥
सुभाषितैः प्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया।
गुणेष्वतृप्तिर्गुणवत्सु चादरो निगूढमेतच्चरितं महात्मनाम्॥ 187 ॥
विपदि धैर्यमथा4भ्युदये क्षमा सदसि 5वाक्टुता युधि विक्रमः।
यशसि चाभिरतिर्व्यसनं 6श्रुतौ 7प्रकृतिसिद्धमिदं हि महात्मनाम्॥ 188 ॥
अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्।
अपि च मानसमम्बुनिधिर्यशो विमलशारदपार्वणचन्द्रिका॥ 189 ॥
यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता॥ 190 ॥
आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम्।
कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति॥ 191 ॥
यः प्रीणयेत्सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं यदेतत्त्रयं जगति पुण्यकृतो लभन्ते॥ 192 ॥
प्रेमैव मास्तु यदि चेत्पथिकेन3 सार्धं तेनापि चेद्गुणवता न समं4 कदाचित्।
तेनापि चेद्भवतु मास्तु कदापि 5भङ्गो भङ्गोऽपि चेद्भवतु वश्यमवश्यमायुः॥ 193 ॥
चन्द्रः क्षयी 6प्रकृतिवक्रतनुर्जडात्मा7 दोषाकरः8 स्फुरति मित्र1विपत्तिकाले।
मूर्ध्ना तथापि विधृतः 2परमेश्वरेण नैवाश्रितेषु महतां गुणदोषशङ्का॥ 194 ॥
दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि मित्रावसानसमये9 विहितोदयोऽपि।
चन्द्रस्तथापि 10हरवल्लभतामुपैति नैवाश्रितेषु महतां गुणदोषशङ्का॥ 195 ॥
लज्जागुणौघजननीं जननीमिव स्वामत्यन्तशुद्धहृदयामनुवर्तमानाम्।
तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम्॥ 196 ॥
सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव।
आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलानि॥ 197 ॥
दाता न दापयति दापयिता न दत्ते यो दानदापनपरो मधुरं न वक्ति।
दानं च दापनमथो मधुरा च वाणी त्रिण्यप्यमूनि खलु सत्पुरुषे वसन्ति॥ 198 ॥
केनाञ्जितानि नयनानि मृगाङ्गनानां को वा करोति 11रुचिराङ्गरुहान्मयूरान्।
कश्चोत्पलेषु दलसंनिचयं करोति को वा करोति विनयं कुलजेषु पुंसु॥ 199 ॥
अद्यापि 12नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्ठभागे।
अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति॥ 200 ॥
विश्वा13भिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव।
लोकप्रियैः परिमलैः परिपूरितस्य 3काश्मीरजस्य कटुतापि नितान्तरम्या॥ 201 ॥
किं जन्मना च महता पितृपौरुषेण शक्त्या हि याति निजया पुरुषः प्रतिष्ठाम्।
कुम्भा न कूपमपि शोषयितुं समर्थाः कुम्भोद्भवेन 4मुनिनाम्बुधिरेव पीतः॥ 202 ॥
आरभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य चोत्तमजना न परित्यजन्ति॥ 203 ॥
सौजन्यधन्यजनुषः पुरुषाः परेषां दोषानपास्य गुणमेव गवेषयन्ति।
त्यक्त्वा भुजंगमविषाणि पटीरगर्भात्सौरभ्यमेव पवनाः परिशीलयन्ति॥ 204 ॥
आक्रोशितोऽपि सुजनो न वदत्यवाच्यं निष्पीडितो मधुरमुद्वमतीक्षुदण्डः।
नीचो जनो गुणशतैरपि सेव्यमानो हास्येन तद्वदति यत्कलहेऽप्यवाच्यम्॥ 205 ॥
यद्वञ्चनाहितामतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति।
तत्साधवो न न विदन्ति विदन्ति किं तु कर्तुं वृथा प्रणयमस्य न पारयन्ति॥ 206 ॥
सद्वंशजस्य परितापनुदः सुवृत्तशुद्धात्मनः सकललोकविभूषणस्य।
छिद्रं प्रजातमपि साधुजनस्य दैवान्मुक्तामणेरिव गुणाय भवत्यवश्यम्॥ 207 ॥
न्यायः खलैः परिहृतश्चलितश्च धर्मः कालः कलिः कलुष एव परं प्रवृत्तः।
प्रायेण दुर्जनजनः प्रभविष्णुरेव निश्चक्रिकः परिभवास्पदमेव साधुः॥ 208 ॥
सत्यं गुणा गुणवतां विधिवैपरीत्याद्यत्नार्जिता अपि कलौ विफला भवन्ति।
साफल्यमस्ति सुतरामिदमेव तेषां यत्तापयन्ति हृदयानि पुनः खलानाम्॥ 209 ॥
पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः।
प्राणात्ययेऽपि न तु साधुजनः सुवृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः॥ 210 ॥
शुद्धः स एव कुलजश्च स एव धीरः श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावम्।
तप्तं यथा दिनकरस्य मरीचिजालैर्देहं त्यजेदपि हिमं न तु शीतलत्वम्॥ 211 ॥
याच्ञापदं मरणदुःखमिवानुभाव्य दत्तेन किं खलु भवत्यतिभूयसापि।
कल्पद्रुमान्परिहसन्त इवेह सन्तः संकल्पितैरतिददत्यकदर्थितं यत्॥ 212 ॥
ते साधवो भुवनमण्डलमौलिभूता ये साधुतां निरुपकारिषु दर्शयन्ति।
आत्मप्रयोजनवशीकृतखिन्नदेहः पूर्वोपकारिषु खलोऽपि हि सानुकम्पः॥ 213 ॥
नान्तर्विचिन्तयति किञ्चिदपि प्रतीपमाकोपितोऽपि सुजनः पिशुनेन पापम्।
अर्कद्विषोऽपि हि मुखे पतिताग्रभागास्तारापतेरमृतमेव कराः किरन्ति॥ 214 ॥
हेतोः कुतोऽप्यसदृशाः सुजना गरीयः कार्यं निसर्गगुरवः स्फुटमारभन्ते।
उत्थाय किं कलशतोऽपि न सिन्धुनाथमुद्वीचिमालमपि बद्धगवानगस्त्यः॥ 215 ॥
पात्रं पवित्रयति नैव गुणान्क्षिणोति स्नेहं न संहरति नापि मलं प्रसूते।
दोषावसानरुचिरश्चलतां न धत्ते सत्संगमः सुकृतसद्मनि कोऽपि दीपः॥ 216 ॥
उदधिर3वधिरुर्व्यास्तं हनूनांस्ततार4 निरवधि गगनं चेत्का5ण्डकोशे विलीनम्।
इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनानां विवेकः॥ 217 ॥
नहि भवति वियोगः स्नेहविच्छेदहेतुर्जगति गुणनिधीनां सज्जनानां कदाचित्।
घनतिमिरनिबद्धो दूरसंस्थोऽपि चन्द्रः किमु कुमुदवनानां प्रेमभङ्गं करोति॥ 218 ॥
धवलयति समग्रं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं 7प्रमार्ष्टि।
भवति विदितमेतत्प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये॥ 219 ॥
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नालिकेरा नराणाम्।
ददति जलमन8नल्पास्वादमाजीवितान्तं नहि कृतमुपकारं साधवो विस्मरन्ति॥ 220 ॥
मनसि वचसि काये पुण्यपीयूष1पूर्णास्त्रिभुवनमुपकारश्रेणिभिः2 प्रीणयन्तः।
परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥ 221 ॥
उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः।
विकसति यदि पद्मं पर्वताग्रे शिलायां न भवति पुनरुक्तं भाषितं सज्जनानाम्॥ 222 ॥
व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसितानां स्थानमूर्जस्वलानाम्।
अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिंस्तादृशाः संभवन्ति॥ 223 ॥
वपुरविहितसिद्धा एव लक्ष्मीविलासाः प्रतिजनकमनीयं कान्तिमत्केतयन्ति।
अमलिनमिव रत्नं रश्मयस्ते मनोज्ञा विकसितमिव पद्मं बिन्दवो माकरन्दाः॥ 224 ॥
अपि विभविहीनः प्रच्युतो वा स्वदेशान्नहि खलजनसेवां प्रार्थयत्युन्नतात्मा।
तनु तृणमुपभुङ्क्ते न क्षुधार्तोऽपि सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम्॥ 225 ॥
वहति भुवनश्रेणीं शेषः फणाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा स च धार्यते।
तमपि कुरुते क्रोडाधीनं पयोनिधिरादरादहह महतां निःसीमानश्चरित्रविभूतयः॥ 226 ॥
अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान्।
तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते॥ 227 ॥
सुखलवदशा हर्षक्लैब्ये खलः खलु खेलते स्खलति भजते लेशक्लेशे विषादविषूचिकाम्।
भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च॥ 228 ॥
घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम्।
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम्॥ 229 ॥
केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः स्नापयितुमसौ केन वा वारिवाहः।
विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः॥ 230 ॥
कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः।
अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्ष्याः॥ 231 ॥
यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः।
तेऽभिप्रायाः किमपि हृदये कण्ठलग्नाः स्फुरन्तो यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते॥ 232 ॥
उदन्वच्छन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते॥ 233 ॥
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणीकपोले व्यासङ्गं कुचकलशमस्याः कलयति।
ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं स्वभावस्वच्छानां विपदपि सुखं नान्तरयति॥ 234 ॥
यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता।
अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः॥ 235 ॥
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो 3विस्मयपदम्।
महामेघः क्षारं पिबति कुरुते वारि मधुरं 4फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम्॥ 236 ॥
5प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते॥ 237 ॥
असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि।
प्ररूढे 6संसर्गे मणिभुजगयोर्जन्मजनिते मणिर्ना3हेर्दोषान्स्पृशति न तु सर्पो मणिगुणान्॥ 238 ॥
न साधुः कुत्रापि व्रजति खलु दोषं न गुणतां खलानां संसर्गैरपि कृतनिवासोऽपि निपुणः।
यथा पक्षिव्यालैरपि हिततनुश्चन्दनतरुर्न वैकृत्यं याति क्षपयति च तापं सुमनसाम्॥ 239 ॥
करे श्लाघ्यस्त्यागः4 शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोर्वीर्य5मतुलम्।
हृदि स्वस्था वृत्तिः श्रुतमधिगतैकव्रतफलं विनाप्यैश्वर्येण प्रकृतिमहतां 6मण्डनमिदम्॥ 240 ॥
अचिन्त्याः पन्थानः किमपि मह7तामन्धकरिपोर्यदक्ष्णोऽभूत्तेजस्तदकृत8 1कथामप्यमदनाम्।
मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम्॥ 241 ॥
इहानेके सन्तः सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो जगति निवसन्तोऽपि सुधयः।
कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थं येषां भवति परकृत्यव्यसनिता॥ 242 ॥
अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः।
अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचयप्रबन्धः साधूनामयमनभिसंधानमधुरः॥ 243 ॥
तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः।
खगानां के मेघाः क इह विहगा वा जलमुचामयाच्यो नार्तानामनुपकरणीयो न महताम्॥ 244 ॥
शिला बाला जाता चरणरजसा यत्कुलशिशोः स एवायं सूर्यः सपदि निजपादैर्गिरिशिलाम्।
स्पृशन्भूयो भूयो न खलु कुरुते कामपि वधूं कुले कश्चिद्धन्यः प्रभवति नरः श्लाघ्यमहिमा॥ 245 ॥
परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरु भूतेषु सततम्।
स्वभावादस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः॥ 246 ॥
तमांसि ध्वंसन्ते परिणमति भूयानुपशयः सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम्।
अथ प्रत्यासङ्गः कमपि महिमानं वितरति प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते॥ 247 ॥
प्रिया 2न्याय्या 9वृत्तिर्म10लिनमसु11भङ्गेऽप्यसुकरं त्वसन्तो 12नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः।13
विपद्युच्चैः स्थेयं पदमनु14विधेयं च महतां सतां केनोद्दिष्टं15 विष16मम17सिधाराव्रतमिदम्॥ 248 ॥
प्रदानं प्रच्छन्नं3 गृहमुपगते4 संभ्रमविधिः प्रियं कृत्वा 5मौनं सदसि कथनं नाप्युपकृतेः6।
अनुत्सेको7 लक्ष्म्यां निरभिभव8साराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥ 249 ॥
विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौल1स्त्यो रणभुवि सहायाश्च कपयः।
तथाप्येको रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः2 सत्त्वे वसति महतां नोपकरणे9॥ 250 ॥
रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्भो मार्गश्चरणरहितः10 सारथिरपि।
रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥ 251 ॥
धनुः पौष्पं11 मौर्वी12 मधु13करमयी चञ्चलदृशां दृशां कोणो बाणः सुहृदपि जडात्मा14 हिमकरः।
तथाप्येकोऽनङ्गस्त्रिभुवनमपि व्याकुलयति क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥ 252 ॥
(14. बुद्धिरहितः; (पक्षे डलयोः सावर्ण्यात्) जलात्मा जलरूपः.)
विपक्षः श्रीकण्ठो जडतनुरमात्यः शशधरो वसन्तः सामन्तः सामन्तः कुसुममिषवः सैन्यमबलाः।
तथापि त्रैलोक्यं जयति मदनो 15देहरहितः क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥ 253 ॥
घटो 16जन्मस्थानं 17मृगपरिजनो भूर्जवसनो वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम्।
तथाप्येकोऽगस्त्यः सकलमपि बद्वारिधिजलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥ 254 ॥
जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः।
महापुरुषसत्कथाश्रवणजातकौतूहलाः समस्तदुरितार्णवप्रकटसेतवः साधवः॥ 255 ॥
य जाते 20व्यसने निरा21कुलधियः संपत्सु नाभ्युन्नताः प्राप्तेनैव पराङ्भुखाः प्रणयिनि प्राणोपयोगैरपि।
22ह्रीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डितास्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः॥ 246 ॥
23क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः।24
दुष्पूरोदरपूरणाय पिबति 25स्रोतःपतिं 26वाडवो जीमूतस्तु27 निदाघ28तापितजगत्संतापविच्छित्तये॥ 257 ॥
मज्जन्तोऽपि विपत्प29योधिगहने निःशङ्कधैर्यावृताः कुर्वन्त्येव परोपकारमनिशं सन्तो यथाशक्ति वै।
राहोरुग्र3करालवक्त्रकुहरग्रासाभिभूतोऽप्यलं चन्द्रः किं न जनं करोति सुखिनं ग्रासावशेषैः करैः4॥ 258 ॥
वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं 5स्वयोषिति रतिर्लोकापवादाद्भयम्।
भक्तिः शूलिनि6 शक्ति7रात्मदमने संसर्गमुक्तिः खलेष्वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः॥ 259 ॥
दृश्यन्ते भुवि भूरिनिम्बतरवः कुत्रापि ते चन्दनाः पाषाणैः परिपूरिता वसुमती वज्रो8 मणिर्दुर्लभः।
श्रूयन्ते 1करटारवाश्च सततं चैत्रे 2कुहूकूजितं तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षितौ सज्जनाः॥ 260 ॥
घर्मार्तं न तथा सुशीतलजलैः स्नानं न 9मुक्तावलिर्न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम्।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम्॥ 261 ॥
धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता।
आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता सत्स्वेव संदृश्यते॥ 262 ॥
सौजन्या10मृतसन्धिवः परहितप्रारब्धवीरव्रता वाचालाः परवर्णने निजगुणालापे च मौनव्रताः।
11आपत्स्वप्यविलुप्तधैर्यनिचयाः संपत्स्व12नुत्सेकिनो मा भूवन्खलवक्त्रनिर्गतविषज्वालातताः सज्जनाः॥ 263 ॥
ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो व्यग्रा ये च परोपकारकरणे 13हृष्यन्ति ये याचिताः।
स्वस्थाः सन्ति च यावैनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता 14धरा धार्यते॥ 264 ॥
क्षारो वारिनिधिः कलङ्ककलुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्च15पलाश्रयोऽभ्रपटलादृश्यः सुवर्णाचलः।
शून्यं व्योम रसा16 द्विजिह्वविधृता स्वर्धामधेनुः पशुः काष्ठं कल्पतरुर्दृषत्सुरमणिस्तत्केन साम्यं सताम्॥ 265 ॥
कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भैः करैः कस्माद्वा जलधारयैव धरणिं धाराधरः सिञ्चति।
भ्रामं भ्राममयं च नन्दयति वा कस्मात्त्रिलोकीं रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः॥ 266 ॥
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते॥ 267 ॥
गर्वं नोद्वहते न निन्दति परान्नो भाषते निष्ठुरं प्रोक्तं केनचिदप्रियं च सहते क्रोधं च नालम्बते।
शृत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवद्दोषांश्छादयते स्वयं न कुरुते ह्येतत्सतां लक्षणम्॥ 268 ॥
किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः।
किं चाङ्गीकृतमुत्सृजन्हि मनसा श्लाघ्यो जनो लज्जते निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्॥ 269 ॥
सेतूपक्रमकौतुकाहृतगिरिप्रक्षेपवेगोच्छलन्निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः।
चक्रे गोष्पदवद्विलङ्घितवतोऽप्यन्तर्भयं मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घ्यता॥ 270 ॥
शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः।
ये कर्मण्यनिरीक्ष्य वान्यमनुजं दुःखार्जितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः॥ 271 ॥
ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः किं कुर्याद्बहुशिक्षितोऽपि पुरुषः पाषाणभूते जने।
प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः सीत्कारो हि मनोहरोऽपि बधिरे किं नाम कुर्याद्गुणम्॥ 272 ॥
तृष्णां छिन्धि भज क्षमां जहि मदं पाते रतिं मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान्।
मान्यान्मानय विद्विषोऽप्यनुनया ह्याच्छादय स्वान्गुणान्कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम्॥ 273 ॥
स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता पत्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता।
साधौ सादरता खले विमुखता पापे परं भीरुता दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति॥ 274 ॥
गेहं दुर्गतबन्धुभिर्गुरुगृहं छात्रैरहंकारिभिर्हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान्।
सिंहाद्यैश्च वनं खलैर्नृपसभां चौरैर्दिगन्तानपि संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति॥ 275 ॥
दीनां कल्पवृक्षः सुगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः।
सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चान्ये॥ 276 ॥
नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्या3पयन्तः स्वार्थान्संपादयन्तो विततबहुतरारम्भयत्नाः परार्थे।
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान्दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुनताः कस्य नाभ्यर्थनीयाः॥ 277 ॥
वक्त्रे वल्गाप्रकर्षः 4समरभुवि तव प्राणरक्षापि दैवात्स्वेच्छाचारो न चास्ते नहि भवति तथा भारवाहो नितान्तम्।
इत्युक्तोऽश्वः खरेण प्रहसितवदनो मूक एवावतस्थे तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते॥ 278 ॥
-
अन्यस्मिन्दिवसे. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
विकारः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
लोकानां हितं तस्मिन्नासक्ताः; [पक्षे] आलोकः प्रकाशस्तदेव हितं तस्मिन्नासक्ताः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
तद्विषयकगवेषणावन्तो भवन्ति; [पक्षे] निद्राभाववन्तो भवन्ति. ↩︎
-
तस्कराः. ↩︎
-
वाडवाग्निः. ↩︎
-
मेघः. ↩︎
-
ग्रीष्मः. ↩︎
-
विपदेव पयोधिः समुद्रः. ↩︎