२० कुगणकनिन्दा

चतुरङ्गबलो राजा जगतीं वशमानयेत्।
अहं पञ्चाङ्गबलवानाकाशं वशमानये॥ 1 ॥
एकासनस्था जलवायुभक्षा 1मुमुक्षवस्त्य2क्तपरिग्रहाश्च।
पृच्छन्ति तेऽप्य3म्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः॥ 2 ॥

न दैवं न पित्र्यं च कर्मावसिद्ध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः।
न तारा न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र बुद्धाः॥ 3 ॥
दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च संगमोऽस्ति।
व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान्॥ 4 ॥
4वृद्धिह्रासौ 5कुमुदसुहृदः 6पुष्पवन्तोपरागः7 शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः।
आविष्कुर्वन्त्यखिलवचनेष्वत्र 8कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदां निश्चलं मानभावम्॥ 5 ॥

भानोः शीतकरस्य वापि भुजगग्रासे9 पुरो निश्चिते तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम्।
इष्टे प्रागवदारिते सति धृतेस्तुष्टेश्च लाभो भवेद्दृष्टे तु 10व्यसनेऽत्र तत्प11रिहृतिः कर्तुं जपाद्यैः क्षमा॥ 6 ॥

गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः।
विविधभुजङ्गक्रीडासक्तां गृहिणीं न जानाति॥ 1 ॥
गणिकागणकौ समानधर्मौ निजपञ्चाङ्गनिदर्शकावुभौ।
जनमानसमोहकारिणौ तौ विधिना वित्तहरौ विनिर्मितौ॥ 2 ॥
असुखमथ सुखं वा कर्मणां 12पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः।
तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात्॥ 3 ॥

विलिखति सदसद्वा जन्मपत्रं जनानां फलति यदि तदानीं दर्शयत्या13त्मदाक्ष्यम्।
न फलति यदि लग्नद्रष्टुरेवाह मोहं हरति धनमिहैवं हन्त दैवज्ञपाशः14॥ 4 ॥

15प्रमोदे खेदे वाप्युपनमति पुंसां विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति।
जनानिष्टानिष्टाकलनपरिहारैकनिरतानसौ मेषादीनां परिगणनयैव 16भ्रमयति॥ 5 ॥

ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः कल्लोलैर्निबिडे कणान्कतिपयाल्ँलब्ध्वा कृतार्थ इव।
दीर्घायुःसुतसंपदादिकथनैर्दै17वज्ञपाशा इमे गेहं गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते॥ 6 ॥


  1. मोक्षेच्छवः. ↩︎

  2. त्यक्तः परिग्रहः कलत्रं यैस्ते. ↩︎

  3. आकाशसञ्चारिग्रहगतिम्. ↩︎

  4. क्षयवृद्धी. ↩︎

  5. चन्द्रस्य. ↩︎

  6. सूर्याचन्द्रमसोः. ↩︎

  7. ग्रहणम्. ↩︎

  8. स्थालीपुलाकन्यायेन. ↩︎

  9. ग्रहणे. ↩︎

  10. दुःखे. ↩︎

  11. परिहारः. ↩︎

  12. परिपाककालेषु. ↩︎

  13. स्वचातुर्यम्. ↩︎

  14. कुदैवज्ञः. ↩︎

  15. हर्षे. ↩︎

  16. भ्रमं करोति. ↩︎

  17. कुदैवज्ञाः. ↩︎