वैद्यराज नमस्तुभ्यं यमराजसहोदर।
यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च॥ 1 ॥
वैद्यराज नमस्तुभ्यं क्षपिताशेषमानव।
त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते॥ 2 ॥
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः।
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम्॥ 3 ॥
कषायैरुपवासैश्च कृतामुल्लाघतां1 नृणाम्।
निजौषधकृतां वैद्यो निवेद्य हरते धनम्॥ 4 ॥
अज्ञातशास्त्रसद्भावा2ञ्शस्त्रमात्रपरायणान्।
त्यजेद्दूराद्भिष3क्पाशान्पाशान्वैवस्वतानिव4॥ 5 ॥
मिथ्यौषधैर्हन्त मृषाकषायैरसह्यलेह्यैरयथार्थतैलैः।
वैद्या इमे वञ्चित5रुग्णवर्गाः पिच6ण्डभाण्डं परिपूरयन्ति॥ 6 ॥
नटोऽपि दद्याद्गणकोऽपि दद्यात्सम्प्रार्थितः पाशुपतोऽपि दद्यात्।
वैद्यः कथं दास्यति याचमानो यो मर्तुकामादपि हर्तुकामः॥ 7 ॥
न 7धातोर्विज्ञानं न च परिचयो वैद्यकनयो न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः।
तथाप्येते वैद्या इति 8तरलयन्तो जडजनान9सून्मृ10त्योर्भृत्या इव 11वसु हरन्ते 12गदजुषाम्॥ 8 ॥
सत्कौणं लोलनेत्रं कुलयुवतिमुखं दृश्यते सानुकम्पै रण्डानामर्धलज्जाञ्चितमधिपुलकं स्पृश्यते पीनमङ्गम्।
क्लीबानां खाद्यतेऽन्तश्चिरनिहितधनं काष्ठमूलाग्नितोयैः पूर्वा सिद्धा कलानां सकलगुणनिधिर्वैद्यविद्याभिवन्द्या॥ 9 ॥