गुरोरधीताखिलवैद्यविद्यः पीयू1षपाणिः कुशलः क्रियासु।
गतत्स्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः स्यात्॥ 1 ॥
रागादिरोगान्सततानुषक्तानशेषकायप्रसृतानशेषान्।
2औत्सुक्यमो3हार4तिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥ 2 ॥
अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित्।
चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति॥ 3 ॥
माबोधि वैद्यकमथापि महामयेषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव।
5आकारयत्यखिल एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः॥ 4 ॥
6मस्ते दुःसहवेदनाकवलिते मग्ने स्वरेऽन्तर्गलं तप्तायां ज्वरपावकेन च तनौ 7तान्ते 8हृषीकव्रजे।
9दूने बन्धुजने कृतप्रलपने धैर्यं विधातुं पुनः कः शक्तः कलितामयप्रशमनो वैद्यात्परो विद्यते॥ 5 ॥
भ्रान्ता वेदान्तिनः किं पठथ शठतयाद्यापि चाद्वैतविद्यां पृथ्वीतत्त्वे लुठन्तो विमृशथ सततं कर्कशास्तार्किकाः किम्।
वेदैर्नानागमैः किं ग्लपयथ हृदयं 1श्रोत्रियाः श्रोत्र10शूलैर्वैद्यं 11सर्वानवद्यं विचिनुत शरणं प्रणसंप्रीणनाय॥ 6 ॥