१८ वैद्यप्रशंसा

गुरोरधीताखिलवैद्यविद्यः पीयू1षपाणिः कुशलः क्रियासु।
गतत्स्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः स्यात्॥ 1 ॥

रागादिरोगान्सततानुषक्तानशेषकायप्रसृतानशेषान्।
2औत्सुक्यमो3हार4तिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥ 2 ॥

अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित्।
चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति॥ 3 ॥
माबोधि वैद्यकमथापि महामयेषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव।
5आकारयत्यखिल एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः॥ 4 ॥

6मस्ते दुःसहवेदनाकवलिते मग्ने स्वरेऽन्तर्गलं तप्तायां ज्वरपावकेन च तनौ 7तान्ते 8हृषीकव्रजे।
9दूने बन्धुजने कृतप्रलपने धैर्यं विधातुं पुनः कः शक्तः कलितामयप्रशमनो वैद्यात्परो विद्यते॥ 5 ॥

भ्रान्ता वेदान्तिनः किं पठथ शठतयाद्यापि चाद्वैतविद्यां पृथ्वीतत्त्वे लुठन्तो विमृशथ सततं कर्कशास्तार्किकाः किम्।
वेदैर्नानागमैः किं ग्लपयथ हृदयं 1श्रोत्रियाः श्रोत्र10शूलैर्वैद्यं 11सर्वानवद्यं विचिनुत शरणं प्रणसंप्रीणनाय॥ 6 ॥


  1. अमृतं पाणौ यस्य सः. अमृतवदवश्यमारोग्यद इत्यर्थः. ↩︎ ↩︎

  2. अविचार्यकार्यप्रवृत्तिः. ↩︎

  3. विचाराशक्ति. ↩︎

  4. असन्तोषः. ↩︎

  5. आह्वयति. ↩︎

  6. मस्तके. ↩︎

  7. म्लाने. ↩︎

  8. इन्द्रियसमूहे. ↩︎

  9. खिन्ने. ↩︎

  10. कर्णकटुभिः. ↩︎

  11. सर्वेषां मध्ये निर्दोषम्. ↩︎