१६ मीमांसकप्रशंसा

भगवदनभ्युपगमनं दैवतचैतन्यनिह्न1वश्चैषाम्।
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव॥ 1 ॥

आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे।
स्वामिनि जैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदम्॥ 2 ॥
शबरकुमारिलगुरवो मण्डनभवदेवपार्थ2सारथयः।
अन्ये च विश्वमान्या जयन्ति सन्त्रायमाणतन्त्रास्ते॥ 3 ॥

नैयायिका वा ननु शाब्दिका वा 3त्रयीशिरःसु श्रमशालिनो वा।
4वादाहवे बिभ्रति जैमिनीयन्या5योपरोधे सति मौनमुद्राम्॥ 4 ॥

आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं पौर्वापर्याधिकारौ तदनु 6बहुविधं चातिदेशं तथोहम्।
बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षाम्॥ 5 ॥


  1. अपलापः. ↩︎

  2. शास्त्रदीपिकाकर्ता पार्थसारथिमिश्रपण्डितः. ↩︎

  3. वेदत्रयी. ↩︎

  4. वादयुद्धे. ↩︎

  5. न्यायरूपे प्रतिबन्धके. ↩︎

  6. सामान्यविशेषभेदेन. ↩︎