परामृशन्तो लिङ्गानि व्यलभिचारविचारकाः।
तार्किका यदि विद्वांसो विटैः किमपराघ्यते॥ 1 ॥
गुरोर्गिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च।
अमी समाघ्रातवितर्कवादाः समागताः कुक्कुटपादमिश्राः॥ 2 ॥
कर्कशतर्कविचारव्यग्रः किं वेत्ति काव्यहृदयानि।
ग्राम्य इव कृषिविलग्नश्चञ्चलनयनावचोरहस्यानि॥ 3 ॥
नैयायिकानां मलिनाम्बराणां जनुर्गतं रासभचिन्तयैव।
तथापि वेश्यास्तनसन्निवेशस्तोतुः कवेः कोऽपि विशेष एव॥ 4 ॥
न जिघ्रत्याम्नायं1 स्पृशति न 2तदङ्गान्यपि सकृत्पुराणं नादत्ते न गणयति किं च स्मृतिगणम्।
पठञ्शुष्कं3 तर्कं परपरिभवार्थोक्तिभिरसौ नयत्यायुः सर्वं निहतपरलोकार्थयतनः॥ 5 ॥
प्रयत्नैरस्तोकैः4 परिचितकुतर्कप्रकरणाः परं वाचोवश्यान्कतिपयपदौघान्विदधतः।
सभायां वाचाटाः श्रुतिकटु रटन्तो घटपटान्न लज्जन्ते 5मन्दाः स्वयमपि तु जिह्रेति6 विबुधः॥ 6 ॥
7कर्मब्रह्मविचारणा विजहतो भोगापवर्गप्रदां घोषं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः।
प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा8व्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति॥ 7 ॥
हेतुः कोऽपि विशिष्टधी9रनुमितौ न 10ज्ञानयुग्मं 11मरुत्त्वाचो नेति च मोघवादमुखरा12 नैयायिकाश्चेद्बुधाः।
मेषस्याण्डमियत्पलं 13बलिभुजो दन्ताः कियन्तस्तथेत्येवं संततचिन्तनैः श्रमजुषो न स्यु- कथं पण्डिताः॥ 8 ॥
साधु व्याकरणं हिताय विशदं काव्यं पिकीगीतवन्मीमांसा श्रुतितत्परा तदनुगं सांख्य सपातञ्जलम्।
त्वं तु न्याय विशुद्धवैदिकविधिव्याकोपबौद्धागमव्याघाताय निगूढतर्कगहन क्वामोदमाधास्यसि॥ 9 ॥
हे हे मित्र जिता मयातिबलिनो विप्रा धनं चार्जितं शेषेभ्यः शरयन्त्रदानमपि सत्संपादितं भूरिशः।
ग्रन्थाश्चापि कृताः सुतर्कघटकाः शास्त्राणि सन्दूष्य वै सोऽहं तर्कविभूषणोऽत्र गहने धात्रा शृगालः कृतः॥ 10 ॥