१४ नैयायिकप्रशंसा

अद्भुतस्त1र्कपाथोधिरगाधो यस्य वर्धकः।
अक्षपादो2ऽतमः3स्पृष्टस्त्वकलङ्कः 4कलानिधिः॥ 1 ॥

अपरीक्षितलक्षणप्रमाणै5रपरामृष्टपदार्थसार्थतत्त्वैः।
अवशीकृतजैत्रयुक्ति6जालैरलमेतैरनधीततर्कविद्यैः॥ 2 ॥

7मोहं 8रुणद्धि विमलीकुरुते च बुद्धिं सूते9 च संस्कृतपदव्यवहारशक्तिम्।
शास्त्रान्तराभ्यसनयोग्यतयां 10युनक्ति तर्कश्रमो न तनुते किमिहोपकारम्॥ 3 ॥

ज्ञानाब्धिर11क्षिचरणः 12कणभक्षकश्च श्रीपक्षिलोऽप्युदयनः स च वर्धमानः।
गङ्गेश्वरः शशधरो बहवश्च नव्या ग्रन्थैर्व्यरुन्धत इमे 13हृदयान्धकारम्॥ 4 ॥

प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञस्याप्य14परिकलितन्यायशास्त्रस्य पुंसः।
वादारम्भे वदितुमनसो वाक्यमेकं सभायां 15प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम्॥ 5 ॥


  1. तर्कसमुद्रः. ↩︎

  2. गौतमः; [पक्षे] क्षपां ददातीति क्षपादः स न भवतीति तथाविधः. चन्द्र इत्यर्थः. ↩︎

  3. अज्ञानेन; [पक्षे] राहुणा. ↩︎

  4. कलानां निधिः; [पक्षे] चन्द्रः. ↩︎

  5. अज्ञातपदार्थसमूहतत्त्वैः. ↩︎

  6. जययुक्ति. ↩︎

  7. अज्ञानम्. ↩︎

  8. रोधयति. नाशयतीत्यर्थः. ↩︎

  9. उत्पादयति. ↩︎

  10. योजयति. ↩︎

  11. गौतमः. ↩︎

  12. कणादः. ↩︎

  13. बुद्धेरज्ञानम्. ↩︎

  14. अनभ्यस्त. ↩︎

  15. वक्रा. ↩︎