टिड्ढाणञ्द्वयसच्चुटूङसिङसोस्तिप्तस्झिसिप्थस्थमिब्वस्मस्ता हशिचष्टुनाष्टुरतइञ्शश्छोऽट्यचोऽन्त्यादिटि।
लोपोव्योर्वलिवृद्धिरेचियचिभंदाधाघ्वदाप्छेचटेरित्य1ब्दानखिलान्न2यन्ति कतिचिच्छब्दान्पठन्तः 3कटून्॥ 1 ॥
सूत्रैः पाणिनिनिर्मितैर्बहुतरैर्निष्पाद्य शब्दावलिं वैकुण्ठ4स्तवमक्षमा रचयितुं मिथ्याश्रमाः शाब्दिकाः।
पक्वान्नं विविधं 5श्रमेण विविधापूपाग्र्यसूपान्वितं मन्दाग्नीन6नुरुन्धते मितबलानाघ्रातुमप्यक्षमान्॥ 2 ॥
कुप्वो (वर्ग) क (वर्ग)पौ च शेषोध्यसखिससजुषोरुर्विरामोऽवसानं शश्छोऽटीत्यादिशब्दैः सदसि यदि 7शठाः शाब्दिकाः पण्डिताः स्युः।
तेषां को वापराधः कथयत सततं ये पठन्तीह थोन्त8त्ताथय्याथय्यथय्याधिगधिगधिगधिगधिक्थय्यथय्येति शब्दान्॥ 3 ॥