वैयाकरणकिरा1तादपशब्दमृगाः क्व यान्ति 2संत्रस्ताः।
3ज्योतिर्नट4गा5यकभिष6गाननग7ह्वराणि यदि न स्युः॥ 1 ॥
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत्8॥ 2 ॥
कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः।
बुधगणगणनावसरे कनिष्ठिकायां परं जयति॥ 3 ॥
9सूत्रं 10पाणिनिबद्धं 11कलयन्पुरुषः 12समुद्वहति 13सुदृशम्।
14वर्णादीनां धर्मान्बुद्ध्वा15 विधिव16त्प्रयु17ङ्क्तेऽसौ॥ 4 ॥
18पातं जले विष्णुपद19पदापगायाः 20पातञ्जले चापि 21नयेऽव22गाहम्।
23आचक्षते शुद्धिदमा24 प्रसूतेरा1 च क्षते रागमधोक्षजे च॥ 5 ॥
नृणामन2भ्यस्तफणाभृदीशगिरां 3दुरापा 4बुधराजगोष्ठी।
5अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोद्धृतयोद्धृसार्था॥ 6 ॥
नाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते।
कस्मिंश्चिदुक्ते तु पदे कथञ्चित्स्वैरं वपुः स्विद्यति वेपते6च॥ 7 ॥
7शब्दशास्त्र8मनधीत्य यः पुमान्वक्तुमिच्छति वचः सभान्तरे।
बन्द्धुमिच्छति वने मदोत्कटं हस्तिनं 9कमलनालतन्तुना॥ 8 ॥
-
पाणिनिना बद्धं चरितम्; [पक्षे] पाणौ हस्ते निबद्धम्. विवाहकाले सूत्रनिर्मिते कङ्कणे वधूवरयोर्हस्तयोर्बध्नन्तीति प्रसिद्धिः. ↩︎
-
अर्थज्ञानपूर्वकं विचारयन्; [पक्षे] धारयन्. ↩︎
-
सम्यग्धारयति; [पक्षे] सम्यगुद्वहति. पाणिग्रहणपूर्वकं स्वीकरोतीत्यर्थः. ↩︎
-
शोभनां दृष्टिम्. शुद्धाशुद्धविवेचनशक्तिमित्यर्थः; [पक्षे] शोभना दृग्यस्या एतादृशीं स्त्रियम्. ↩︎
-
अकारप्रभृतिवर्णादीनाम्; [पक्षे] ब्राह्मणवर्णादीनाम्. ↩︎
-
ज्ञात्वा. ↩︎
-
यथाशास्त्रम्. ↩︎
-
प्रयोगं करोति; [पक्षे] योजयति. ↩︎
-
पतनम्. ↩︎
-
गङ्गायाः. ↩︎
-
पतञ्जलिनिर्मिते. ↩︎
-
व्याकरणशास्त्रे. ↩︎
-
मज्जनम्; [पक्षे] अभ्यासम्. ↩︎
-
वदन्ति. ↩︎
-
जननादारभ्य. ↩︎