०९ कुपण्डितनिन्दा

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥ 1 ॥
मूर्खचिह्नानि षडिति गर्वो दुर्वचनं मुखे।
विरोधी विषवादी च कृत्याकृत्यं न मन्यते॥ 2 ॥
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।
अशुभं वाक्यमादत्ते 1पुरीषमिव शूकरः॥ 3 ॥

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयःपानं भुजंगानां केवलं विषवर्धनम्॥ 4 ॥
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह।
मूर्खजनसम्पर्कः 2सुरेन्द्रभवनेष्वपि॥ 5 ॥

मूर्खोऽपि मूर्खं दृष्ट्वा च चन्दनादपि शीतलः।
यदि पश्यति विद्वांसं मन्यते पितृघातकम्॥ 6 ॥
अन्तःसारविहीनस्य सहायः किं करिष्यति।
मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः॥ 7 ॥
यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः।
न स जानाति शास्त्रार्थान्दर्वी पाकरसानिव॥ 8 ॥
रूपयौवनसम्पन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका इव॥ 9 ॥
विद्याविधिविहीनेन किं कुलीनेन देहिनाम्।
अकुलीनोऽपि यो विद्वान्दैवतैरपि पूज्यते॥ 10 ॥
मदोपशमनं शास्त्रं खलानां कुरुते मदम्।
चक्षुः-प्रकाशकं तेज उलूकानामिवान्धताम्॥ 11 ॥
ज्ञानविद्याविहीनस्य विद्याजालं निरर्थकम्।
कण्ठसूत्रं विना नारी अनेकाभरणैर्युता॥ 12 ॥
मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि।
कः सुधीः सन्त्यजेद्भाण्डं 3शुल्कस्यैवातिसाध्वसात्॥ 13 ॥

माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा॥ 14 ॥
पुस्तकेषु च नाधीतं नाधीतं गुरुसंनिधौ।
न शोभते सभामध्ये हंसमध्ये बको यथा॥ 15 ॥
विद्यया शस्यते लोके पूज्यते चोत्तमैः सदा।
विद्याहीनो नरः प्राज्ञः सभायां नैव शोभते॥ 16 ॥
शोभते विदुषां मध्ये नैव निर्गुणमानसः।
अन्तरे तमसां दीपः शोभते नार्कतेजसाम्॥ 17 ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।
अबोधोपहताश्चान्ये जीर्णभङ्गे सुभाषितम्॥ 18 ॥
पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः।
तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः॥ 19 ॥
क्व दोषोऽत्र मया लभ्य इति संचिन्त्य चेतसा।
खलः काव्येषु साधूनां श्रवणाय प्रवर्तते॥ 20 ॥
उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः।
स्वसम्वेदनसम्वेद्यसाराः सहृदयोक्तयः॥ 21 ॥
केषाञ्चिद्वाचि शुकवत्परेषां हृदि मूकवत्।
कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः॥ 22 ॥
बहूनि नरशीर्षाणि लोमशानि बृहन्ति च।
ग्रीवासु प्रतिबद्धानि किं चित्तेषु सकर्णकम्॥ 23 ॥
कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः।
विध्यमानश्रुतेर्माभूद्दुर्जनस्य कथं व्यथा॥ 24 ॥
अज्ञः सुखमाराध्यः सुखतरमाराध्ये विशेषज्ञः।
ज्ञानलवदुर्विदग्धं4 ब्रह्मापि नरं न 5रञ्जयति॥ 25 ॥

गुणिगणगणनारम्भे न पतति कठिनी2 सुसंभ्रमाद्यस्य।
तेनाम्बा यदि 3सुतिनी वद वन्ध्या कीदृशी भवति॥ 26 ॥

निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि।
पश्य धनुर्गुणशून्यं निर्जीवं यदिह शंसन्ति॥ 27 ॥
अन्तर्भूतो निवसति 4जडे जडः5 शिशिरमहसि हरिण इव।
अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति॥ 28 ॥

जीवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत्।
नयनविकासविधायी सचेतनाभ्यागमो यावत्॥ 29 ॥
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः।6
तृणं न खादन्नपि जीवमानस्तद्भागधेयं7 परमं पशूनाम्॥ 30 ॥

जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः।
प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नाङ्कुरज्योतिषि किं करोति॥ 31 ॥
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः।
ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति॥ 32 ॥
मुक्ताफलैः किं मृगपक्षिणां च मृष्टान्नपानं किमु गर्दभानाम्।
अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं धर्मकथाप्रसङ्गः॥ 33 ॥
अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम्।
ते गारुडीयाननधीत्य मन्त्रान्हालाहलास्वादनमारभन्ते॥ 34 ॥
अवद्यज8म्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम्।
कवीन्द्रवाङ्निर्जरनिर्झरिण्यां सञ्जायते व्यर्थमनोरथत्वम्॥ 35 ॥

वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः।
सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता॥ 36 ॥
व्यालाश्च राहुश्च सुधाप्रसादाज्जिह्वाशिरोनिग्रहमुग्रमापुः।
इतीव भीताः पिशुना भवन्ति पराङ्भुखाः काव्यरसामृतेषु॥ 37 ॥
सरस्वतीमातुरभूच्चिरं न यः कवित्वपाण्डित्यघनस्तनन्धयः।
कथं स सर्वाङ्गमनाप्तसौष्ठवो दिनाद्दिनं प्रौढिविशेषमश्नुते॥ 38 ॥
वितीर्णशिक्षा इव हृत्पदस्थसरस्वतीवाहनराजहंसैः।
ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति॥ 39 ॥
काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन्नो सुमनोजनस्य।
सच्चक्रमव्याजविराजमानतैक्ष्ण्यप्रकर्षं यदि नाम न स्यात्॥ 40 ॥
विना न साहित्यविदापरत्र गुणः कथञ्चित्प्रथते कवीनाम्।
आलम्बते तत्क्षणमम्भसीव विस्तारमन्यत्र न तैलबिन्दुः॥ 41 ॥
अत्यर्थवक्रत्वमनर्थकं या शून्या तु सर्वान्यगुणैर्व्यनक्ति।
अस्पृश्यतादूषितया तया किं तुच्छश्वपुच्छच्छटयेव वाचा॥ 42 ॥
नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं पुष्णातु साधर्म्यभृदञ्जनेन।
विना तु जायेत कथं तदीयक्षोदेन सारस्वतदृक्प्रसादः॥ 43 ॥
विविनक्ति न 2बुद्धिदुर्विधः स्वयमेव स्वहितं 3पृथग्जनः।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत्॥ 44 ॥

विदुरे4ष्यदपायमात्मना परतः श्रद्धधतेऽथ वा बुधाः।
न परोपहितं न च स्वतः 5प्रमिमीतेऽनुभवादृतेऽल्पधीः॥ 45 ॥

अथ 6वाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम्।
रविरागिषु शीतरोचिषः7 करजालं कमलाकरेष्विव॥ 46 ॥

कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः।
अहह केऽपि निरक्षरकुक्षयस्तदिह संप्रति कं प्रति मे श्रमः॥ 48 ॥
ये के विचित्ररसशालिषु सत्कवीनां सूक्तेषु कर्णपथगामिषु नाद्रियन्ते।
ते मालतीपरिमलेष्वपि कन्दलत्सु नासापुटं करतलेन पिदध्युरेव॥ 49 ॥
मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम्।
काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमां कियतो विलासान्॥ 50 ॥
चेतःप्रसादजननं विबुधोत्तमानामानन्दि सर्वरसयुक्तमतिप्रसन्नम्।
काव्यं खलस्य न करोति हृदि प्रतिष्ठां पीयूषपानमिव वक्त्रविवर्ति राहोः॥ 51 ॥
बद्धा यदर्पणरसेन विमर्दपूर्वमर्थान्कथं झटिति तान्प्रकृतान्न दद्युः।
चौरा इवातिमृदवो महतां कवीनामर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः॥ 52 ॥
अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या।
साप्यस्ति चेन्न नववक्रगतिस्तदेतद्व्यर्थं विना रसमहो गहनं कवित्वम्॥ 53 ॥
श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्तस्याः कविप्रवरसूक्तिधनुर्लतायाः।
कर्णान्तिकप्रणयभाजि गुणे यदीये चेतांसि मत्सरवतां झटिति त्रुटन्ति॥ 54 ॥
अरण्यरुदितं कृतं 9शवशरीरमु10द्वर्तितं 11स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम्।
श्वपुच्छमवनामितं12 बधिरकर्णजापः13 कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः॥ 55 ॥

14प्रसह्य मणिमुद्धरेन्मकरवक्त्रदम्ष्ट्राङ्कुरात्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम्।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन्न तु 2प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥ 56 ॥

लभेत सिक3तासु तैलमपि यत्नतः पीडयन्पिबेच्च 4मृगतृष्णिकासु सलिलं पिपासार्दितः।
कदाचिदपि पर्यटञ्छशविषा5णमासादयेन्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥ 57 ॥

यदा किंञ्चिज्ज्ञोऽहं द्विप6 इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवद7वलिप्तं मम मनः।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥ 58 ॥

शिरः शार्वं8 स्वर्गात्पशुपतिशिरस्तः9 क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम्।
अधोऽधो गङ्गेयं पदमुपगता स्तोकमधुना विवेकभ्रष्टानां भवति विनिपातः शतमुखः॥ 59 ॥

परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः।
अविच्छिन्नोद्गच्छज्जलधिलहरीरीति सुहृदः सुहृद्या वैशद्यं दधति किल केषांचन गिरः॥ 60 ॥
वितरति10 गुरुः प्राज्ञे विद्यां यथैव तथा 11जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्युपहन्ति12 वा।
भवति च पुनर्भूयान्भे13दः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्ब14ग्राहे मणिर्न 15मृदां चयः॥ 61 ॥

अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये।
फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु भृशायते॥ 62 ॥
व्यासादीन्क16विपुङ्गवाननु17चितैर्वाक्यैः सलीलं सहन्नुच्चैर्जल्प निमील्य लोचनयुगं श्लोकान्सगर्वं पठ।
काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धस्व सार्धं बुधैर्यद्यभ्यर्थयसे श्रुतेन रहितः पाण्डित्यमाप्तुं बलात्॥ 63 ॥

ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम्।
तेषां रोषकषायितोदरदृशां18 कोपोष्णनिःश्वासिनां दीप्ता रत्नशिखेव 19कृष्णकणिनां विद्या जनोद्वेजिनी1॥ 64 ॥

20ग्रीवास्तम्भभृतः 21परोन्नतिकथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः।
अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टा नूनमपण्डितस्य22 23विकृतिर्भी24मज्वरारम्भभूः॥ 65 ॥

मूर्खत्वं सुलभं भजस्व कुमते मूर्खस्य चाष्टौ गुणा निश्चिन्तो बहुभोजनोऽतिमुखरो रात्रिं दिवा स्वप्नभाक्।
कार्याकार्यविचारणान्धबधिरो मानापमाने समः प्राये2णामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति॥ 66 ॥

3व्याल बालमृणा4लतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं 5वज्रमणीञ्शिरीषकुसुमप्रान्तेन 6संनह्यते।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते7 नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः 8सुधास्यन्दिभिः॥ 67 ॥

शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिता9ङ्कुशेन समदो दण्डेन गोगर्दभौ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्॥ 68 ॥

तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता।
दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः॥ 69 ॥
काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर्दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः।
कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्वेषते॥ 70 ॥
विद्ये हृद्यतरासि किं नु कृपणासम्भावनैर्लज्जसे सन्त्यन्ये तव तोषणाहितधियो धन्या वदान्या भुवि।
कान्तानां कुचकुम्भकौशलरुचां नो हानिरेतावता षण्ठानां हृदयेऽपि यत्प्रणयते नानङ्गरागोदयः॥ 71 ॥
मीमांसा पठिता न यैरुपनिषन्नैव श्रुता तत्त्वतः श्रीमच्छङ्करभाष्यतो भगवती गीताप्यधीता न यैः।
सिद्धान्तापगतं शिरोमणिमतं ज्ञात्वापि किंचित्ततो भट्टाचार्यपदं गताः कथमहो लज्जां लभन्ते न ते॥ 72 ॥
पेटीचीवरपट्टवस्त्रपटलश्वेतातपत्रच्छटाशाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं नमः।
येनानक्षरकुक्षयोऽपि जगतः कुर्वन्ति सर्वज्ञताभ्रान्तिं येन विना तु हास्यपदवीं सन्तोऽपि कष्टं गताः॥ 73 ॥
साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति।
तद्युक्तं विदुषो जनस्य जडवज्जोषं तु नामासितुं जात्यन्धं प्रतिरूपवर्णनविधौ कोऽयं वृथैवोद्यमः॥ 74 ॥
ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्येऽप्येते कृतमत्सराः परगुणं स्वप्नेऽपि नेच्छन्ति ये।
अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृतावित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येऽधुना॥ 75 ॥
यातास्ते रससारसङ्ग्रहविधिं निष्पीड्य निष्पीड्यये वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे।
जायन्तेऽद्य यथायथं तु कवयस्ते तत्र संतन्वते येऽनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम्॥ 76 ॥
2प्रादुष्यात्पण्डितानां 3कविवचसि कथं प्रत्ननूत्नत्वचिन्ता विद्येरन्य4वद्यान्यभिजहति तथा गृह्णते स्युर्गुणाश्चेत्।
अन्यस्त्वन्यप्रमाणः परमवतनुते छिद्यते तावता किं नायं रत्नस्य दोषो दृषदिति यदिदं क्षिप्रमन्धाः क्षिपन्ति॥ 77 ॥


  1. विष्ठा. ↩︎ ↩︎

  2. सुरेन्द्राणां भवनेषु. स्वर्गादिलोकेष्वपीति भावः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. नेतव्यानेतव्यवस्तुसम्बन्धी राजग्राह्यो भागः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. विकृतिभावं गतम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. रञ्जयितुमसमर्थो भवति. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. शृङ्गम्. ↩︎ ↩︎ ↩︎ ↩︎

  7. दैवम्. ↩︎ ↩︎ ↩︎ ↩︎

  8. कर्दमः. ↩︎ ↩︎ ↩︎

  9. प्रेतशरीरम्. ↩︎ ↩︎ ↩︎

  10. उद्वर्तनं यवगोधूमादिचूर्णेन मलापकर्षणं तेन सुगन्धितम्. ↩︎ ↩︎

  11. निर्जलप्रदेशे. ↩︎ ↩︎

  12. ऋजुतासम्पादनाय नम्रीकृतम्. ↩︎ ↩︎

  13. कर्णमन्त्रः. ↩︎ ↩︎

  14. बलात्कारं कृत्वा. ↩︎ ↩︎

  15. मृत्पिण्डः. ↩︎

  16. कविश्रेष्ठान्. ↩︎

  17. अयोग्यैः. ↩︎

  18. रोषेण कषायितं ताम्रमुदरं गर्भो यस्या एवंविधा दृग्वेषाम्. ↩︎

  19. कृष्णसर्पाणाम्. ↩︎

  20. ग्रीवास्तम्भं धारयतः. ↩︎

  21. परोत्कर्षः. ↩︎

  22. मूर्खस्य. ↩︎

  23. विकारः. ↩︎

  24. दारुणज्वरारम्भकभूमिः. ↩︎