०८ पण्डितप्रशंसा

पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः। तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते॥ 1 ॥
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तापादपे देश एरण्डोऽपि 1द्रुमायते॥ 2 ॥

किं कुलेन 2विशालेन विद्याहीनस्य देहिनः।
अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते॥ 3 ॥

रोहणं सूक्तिरत्नानां वन्दे वृन्दं विपश्चिताम्।
यन्मध्यपतितो नीचः काचोऽप्युच्चैर्महीयते3॥ 4 ॥

विद्वानेव विजानाति विद्वज्जनपरिश्रमम्।
नहि वन्ध्या विजानाति 4गुर्वीं 5प्रसववेदनाम्॥ 5 ॥

प्राज्ञो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः॥ 6 ॥
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते॥ 7 ॥
अलंकरोति यः श्लोकं शुक एव न मध्यमः।
1अलं करोति यः श्लोकं शुक2 एव नमध्यमः॥ 8 ॥

3सदोषमपि निर्दोषं भवत्यग्रे विपश्चितः।
6रामस्येवा7र्जुनवपुः कवेश्च सरसं वचः॥ 9 ॥

गुणदोषौ बुधो 8गृह्णन्निन्दुक्ष्वेडा9विवेश्वरः।
शिरसा 10श्लाघते पूर्वं परं कण्ठे नियच्छति11॥ 10 ॥

स्थिरा शैली12 गुणवतां खलबुद्ध्या न बाध्यते।
रत्नदीपस्य हि शिका वात्ययापि न नाश्यते॥ 11 ॥

वेश्यानामिव विद्यानां मुखं कैः कैर्न चुम्बितम्।
हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा॥ 12 ॥
विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव॥ 13 ॥
अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम्।
13अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः॥ 14 ॥

स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम्।
उत्पद्यते च युगपद्वदनेऽक्ष्णोश्च यस्य 14वाः॥ 15 ॥

श्रुते महाकवेः काव्ये नयने वदने च 15वाः॥ 16 ॥

विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य।
काञ्चनमणिसंयोगो नो जनयति कस्य लोचनानन्दम्॥ 17 ॥
व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये।
उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति॥ 18 ॥
सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च।
एतानि यो धारयते स विद्वान्न केवलं यः पठते स विद्वान्॥ 19 ॥
कवीश्वराणां वचसां विनोदैर्नन्दन्ति विद्यानिधयो न चान्ये।
चन्द्रोपला एव करैर्हिमांशोर्मध्ये शिलानां सरसा भवन्ति॥ 20 ॥
शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान्।
सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्॥ 21 ॥
न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम्।
तत्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥ 22 ॥
इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम्।
गिरिशिखरगतापि काकपङ्क्तिः 4पुलिनगतैर्न समत्वमेति हंसैः॥ 23 ॥

सन्तश्चेदिह गुणबिन्दवो बुधस्तान्सन्तुष्टः कवलयति स्फुटेऽपि दोषे।
सम्युक्तानपि पयसः कणान्विचिन्वन्नम्भस्तो ग्रसति हि मङ्क्षु 5मल्लिकाक्षः॥ 24 ॥

अन्या 1जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम्।
लोकोत्तरा च कृतिराकृतिरङ्गहृद्या विद्यावतां सकलमेव गिरां 2दवीयः॥ 25 ॥

अधिगतपरमार्थान्पण्डितान्मा3वमंस्थास्तृणमिव लघुलक्ष्मीर्नैव ता6न्संरुणद्धि।
मदमिलितमिलिन्दश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं 7वारणानाम्॥ 26 ॥

8शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः 9कवयो वसन्ति विषये10 यस्य प्रभोर्निर्धनाः।
11तज्जाड्यं वसुधाधिपस्य कवयो ह्यर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः12 पातिताः॥ 27 ॥

हर्तुर्याति न गोचरं 13किमपि 14शं पुष्णाति सर्वात्मना ह्यर्थिभ्यः 15प्रतिपाद्यमान16मनिशं प्राप्नोति वृद्धिं पराम्।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत17 नृपाः कस्तैः सह स्पर्धते18॥ 28 ॥


  1. वृक्षवदाचरति. ↩︎ ↩︎ ↩︎

  2. विस्तीर्णेन. ↩︎ ↩︎ ↩︎

  3. पूज्यते. ↩︎ ↩︎ ↩︎

  4. महतीम्. ↩︎ ↩︎

  5. प्रसवकाले या वेदना ताम्. ↩︎ ↩︎

  6. परशुरामस्य. ↩︎ ↩︎

  7. सहस्रार्जुनशरीरम्. ↩︎ ↩︎

  8. जानन्. [पक्षे] उपाददानः. ↩︎ ↩︎

  9. गरलम्. ↩︎ ↩︎

  10. अभिनन्दयति; [पक्षे] धारयति. ↩︎ ↩︎

  11. निरुणद्धि. वाचा कण्ठाद्बहिर्नोद्धाटयतीत्यर्थः; [पक्षे] स्थापयति. ↩︎ ↩︎

  12. रीतिः. ↩︎ ↩︎

  13. अव्ययेभ्यः. अव्ययानामनेकार्थत्वात्; [पक्षे] व्ययरहितेभ्यः. कृपणेभ्य इति यावत्. ↩︎ ↩︎

  14. उदकम्; [पक्षे] ‘वाः वाः’ इति लौकिकशब्दः. ↩︎ ↩︎

  15. नयने वाः सलिलम्. आनन्दाश्रुजलमित्यर्थः. वदने च वाः ‘वाह्वा’ इति प्रशंसाबोधको देशी शब्दः. ↩︎ ↩︎

  16. निरन्तरम्. ↩︎

  17. त्यजत. ↩︎

  18. स्पर्धां करोति. ↩︎