०७ कुकविनिन्दा

अप्रगल्भाः 1पदन्यासे 2जननीरागहेतवः।
सन्त्येके 3बहुलालापाः कवयो बालका इव॥ 1 ॥

कविभिर्नृपसेवासु वित्तालङ्कारकारिणी।
वाणी वेश्येव लोभेन परोपकरणीकृता॥ 2 ॥
4अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः5
अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते॥ 3 ॥

प्रायः कुकवयो लोके 6रागाधिष्ठितदृष्टयः।
कोकिला इव जायन्ते वाचालाः कामकारिणः॥ 4 ॥

किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी।
कथेव भारती यस्य न प्राप्नोति दिगन्तरम्॥ 5 ॥
किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः।
परस्य हृदये लग्नं न घूर्णयति यच्छिरः॥ 6 ॥
मुखमात्रेण काव्यस्य करोत्यहृदयो जनः।
छायामच्छामपि श्यामां राहुस्तारापतेरिव॥ 7 ॥
श्लोकार्थस्वादकाले तु शब्दोत्पत्तिविचिन्तकाः।
नीवीविमोक्षवेलायां वस्त्रमौल्यविचिन्तकाः॥ 8 ॥
अधिभिल्लपल्लिगल्लं स्याद्बल्लवपल्लवोऽपि वाचालः।
नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति॥ 9 ॥
गणयन्ति 7नापशब्दं न 1वृत्तभङ्गं क्षयं न 2चार्थस्य।
रसिकत्वेनाकुलिता 3वेश्यापतयः कुकवयश्च॥ 10 ॥

दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति।
दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन॥ 11 ॥
कविरनुहरति च्छायां पदमेकं पादमेकमर्धं वा।
सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै॥ 12 ॥
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे।
निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी॥ 13 ॥
अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूषणान्येव।
अतिरमणीये वपुषि व्रणमेव हि मक्षिकानिकरः॥ 14 ॥
बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम्।
कविमाणवका दूतीव्याख्यातमधीयते भावम्॥ 15 ॥
4द्राघीयसा धार्ष्ट्यगुणेन युक्ताः कैः कैरपूर्वैः परकाव्यखण्डैः।
5आडम्बरं ये वचसां वहन्ति ते केऽपि कन्थाकवयो जयन्ति॥ 16 ॥

कर्णामृतं सूक्तिरसं विमुच्य दोषेषु यत्नः समुहान्खलस्य।
अवेक्षते केलिवनं प्रविष्टः 6क्रमेलकः कण्टकजालमेव॥ 17 ॥

8साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति॥ 18 ॥

गृह्मन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम्।
रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः॥ 19 ॥
दैवीर्गिरः केऽपि कृतार्थयन्ति ताः कुण्ठयन्त्येव पुनर्विमूढाः।
या विप्रुषः शुक्तिमुखेषु दैव्यस्ता एव मुक्ता न तु चातकेषु॥ 20 ॥
परिश्रमज्ञं जनमन्तरेण मौनिव्रतं बिभ्रति वाग्मिनोऽपि।
वाचं यमाः सन्ति विना वसन्तं पुंस्कोकिलाः पञ्चमचञ्चवोऽपि॥ 21 ॥
काव्यं करोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं न निवारयन्ति।
गव्यं घृतं पिब निवातगृहं प्रविश्य वाताधिका हि पुरुषाः कवयो भवन्ति॥ 22 ॥
यः सत्पदस्थमिह काव्यमधु प्रसन्नं मुष्णन्परस्य तनुते निजपद्यमध्ये।
अस्थानदोषजनितेव पिपीलिकाली काली विभाति लिखिताक्षरपङ्क्तिरस्य॥ 23 ॥
हठादाकृष्टानां कतिपयपदानां रचयिता जनः स्पर्धालुश्चेदहह कविना वश्यवचसा।
भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह॥ 24 ॥
स्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः करोति वरवर्णिनीचरितवर्णनं गर्हितम्।
अनीतिरवनीपतिर्बत शुनीतनुं मौक्तिकैर्विभूषयति देवतामुकुटभागयोग्यैर्यथा॥ 25 ॥
श्रीनाथस्तवनानुरूपकवनां वाणीं मनोहारिणीं कष्टं हा कवयः कदर्यकुटिलक्ष्मा7पालसात्कुर्वते।
दूरोपाहृतसौर1सैन्धवपयो देवाभिषेकोचितं संसेके विनियुञ्जते सुमतयः शाखालवालस्य किम्॥ 26 ॥

लीलालुण्ठितशारदापुरमहासंपद्भराणां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां वृकाः सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः॥ 27 ॥
स्वाधीनो रसनाञ्चलः परिचिताः शब्दाः कियन्तः क्वचित्क्षोणीन्द्रो न नियामकः परिषदः शान्ताः स्वतन्त्रं जगत्।
तद्यूयं कवयो वयं वयमिति प्रस्तावनाहुंकृतिस्वच्छन्दं प्रतिसद्म गर्जत वयं मौनव्रतालम्बिनः॥ 28 ॥
स्वर्गानर्गलनिर्गलत्सुरसरित्पाथः-प्रपातप्रथाप्रत्याख्यानपटीयसापि वचसा जिह्रेति जिह्वेह नः।
एकद्व्यक्षरकष्टपिष्टरचनादुर्वारगर्वग्रहाः कन्थामात्रकुविन्दकाः कवयितुं सज्जन्ति लज्जामुचः॥ 29 ॥
यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसम्पर्कभृन्नालङ्कारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः।
तस्माच्चेन्द्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत्॥ 30 ॥


  1. सुप्तिङन्तादि; [पक्षे] अङ्घ्रिः. ↩︎ ↩︎ ↩︎

  2. जनानां नीरागो विरसता तस्य हेतवः; [पक्षे] जनन्या मातू रागहेतवः प्रीतिहेतुभूताः. ↩︎ ↩︎

  3. बहुला आलापा येषाम्; [पक्षे] बह्वी या लाला तां पिबन्ति ते. ↩︎ ↩︎

  4. वर्णान्तरपरिवर्तनेन. ↩︎ ↩︎

  5. गोपनैः. ↩︎ ↩︎

  6. रक्ततया; [पक्षे] कोपेन. ↩︎ ↩︎

  7. दुःशब्दम्. ↩︎ ↩︎

  8. अलङ्कारादिप्रतिपादकशास्त्रसागरमन्थनोद्भवम्. ↩︎