३० सुदर्शनः

न मुग्धदयिताधरे न विषभाजि रत्नाकरे न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे।
सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रभ्रमम्॥ 61 ॥