२८ शाकल्लमल्लः

1एकोऽभूत्पुलिनात्ततस्तु 2नलिनाच्चान्योऽपि 3नाकोरभूत्प्राच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा।
अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास्तान्सर्वानतिशय्य खेलतितरां शाकल्लमल्लः कविः॥ 59 ॥


  1. व्यासः. ↩︎

  2. ब्रह्मदेवः. ↩︎

  3. वाल्मीकिः. ↩︎