२४ वाल्मीकिः

कवीन्दुं नौमिवाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः॥ 44 ॥
सदूषणापि1 निर्दोषा सखरापि2 सुकोमला।
नमस्तस्मै कृता येन रम्या रामायणी कथा॥ 45 ॥

योगीन्द्रश्छन्दसां स्रष्टा रामायणमहाकविः।
वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः॥ 46 ॥
लौकिकानां हि साधूनामर्थं वागनुवर्तते।
ऋषीणां पुनराद्यानां3 वाचमर्थोऽनुधावति॥ 47 ॥

आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे।
लोकश्लोकविधात्रोर्ययोर्भिदा 4लेशमात्रेण॥ 48 ॥

तमृषिं मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम्।
सुरलोकादवतारप्रान्तरखेदच्छिदं वन्दे॥ 49 ॥
विहित5घनालङ्कारं 6विचित्रवर्णावलीमयस्फुरणम्।
शक्रायुधमिव 7वक्रं 8वल्मीकभुवं मुनिं नौमि॥ 50 ॥

सति काकुत्स्थकुलोन्नतिकारिणि रामायणेऽपि किं काव्यम्।
रोहति कुल्या गङ्गापूरे किं बहुरसे वहति॥ 51 ॥
भास्वद्वंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः।
पीत्वा यद्वदनेन्दुमण्डलगलत्काव्यामृताब्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति॥ 52 ॥


  1. दूषणो राक्षसविसेषः; [पक्षे] काव्यदोषाः. ↩︎

  2. खरो राक्षसविशेषः; [पक्षे] कर्कशत्वम्. ↩︎

  3. वाल्मीक्यादीनाम्. ↩︎

  4. ले लकारे शकारमात्रयोगेण लोकश्लोकयोर्भेदः; [पक्षे] किंचिन्मात्रम्. ↩︎

  5. विहिता घना बहवोऽलंकारा उपमादयो येन तम्; [पक्षे] विहितं घनानां मेघानामलंकरणं येन तम्. ↩︎

  6. विचित्रा वर्णानामक्षराणां यावली पङ्क्तिस्तत्प्रचुरं स्फुरणं स्फूर्तिर्यस्य तम्; [पक्षे] वर्णा नीलपीतादयस्तत्पङ्ख्तिविकारः स्फुरणमुत्पत्तिर्यस्य तम्. ↩︎

  7. वक्रोक्तिकुशलम्; [पक्षे] यथाश्रुतम्. ↩︎

  8. वाल्मीकिम्; [पक्षे] वल्मीकाज्जातम्. इन्द्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम्. ‘वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य’ इति कालिदासः. ↩︎