२१ मुरारिः

1भवभूतिमनादृत्य निर्वाणमतिना मया।
2मुरारिपदचिन्तायामिदमाधीयते मनः॥ 38 ॥

मुरारिपदभक्तिश्चेत्तदा 3माघे रतिं कुरु।
मुरारिपदभक्तिश्चेत्तदा 4माघे रतिं कुरु॥ 39 ॥

देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः।
अब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति 5मन्थाचलः॥ 40 ॥


  1. शिवैश्वर्यम्; [पक्षे] एतन्नामानं कविम्. ↩︎

  2. विष्णुः; [पक्षे] कविविशेषः. ↩︎

  3. माघकाव्ये. ↩︎

  4. अघे पातके मा प्रीतिं कुर्वित्यर्थः. ↩︎

  5. मन्दराद्रिः. ↩︎