तावत्कविविहंगानां ध्वनिर्लोकेषु शस्यते। यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः॥ 35 ॥ दर्पं कविभुजङ्गानां गता श्रवणगोचरम्। विषविद्येव मायूरी मायूरी वाङ्निकृन्तति॥ 36 ॥