१९ मयूरः

तावत्कविविहंगानां ध्वनिर्लोकेषु शस्यते।
यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः॥ 35 ॥
दर्पं कविभुजङ्गानां गता श्रवणगोचरम्।
विषविद्येव मायूरी मायूरी वाङ्निकृन्तति॥ 36 ॥