१७ भवभूतिः

सुकविद्वितयं मन्ये निखिलेऽपि महीतले।
भवभूतिः शुकश्चायं वाल्मीकिस्तु तृतीयकः॥ 31 ॥
1भवभूतेः संबन्धाद्भू2धरभूरेव 3भारती भाति।
4एतत्कृतकारुण्ये किमन्यथा रोदिति 5ग्रावा॥ 32 ॥

रत्नावलीपूर्वकमन्यदास्तामसीमभोगस्य वचोमयस्य।
पयोधरस्येव हिमाद्रिजायाः परं विभूषा भवभूतिरेव॥ 33 ॥


  1. शिवैश्वर्यस्य. ↩︎

  2. नगेन्द्रकन्या. ↩︎

  3. सरस्वती. ↩︎

  4. भवभूतिकृतकरुणारसप्रधाने नाटके. उत्तररामचरित इत्यर्थः. ↩︎

  5. ‘अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्’ इति पद्ये. ↩︎