1बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नमः।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरामुल्लेखैः कवयन्ति बिह्लणकविस्तेष्वेव सन्नह्यति॥ 29 ॥
-
यथा ‘रावणः सीतां जहार’ इति वाक्ये ‘रावणः’ इति पदं बिन्दुद्वन्द्व(विसर्ग)युक्तं कर्तृ, ‘सीतां’ इति शिरोबिन्दु(अनुस्वार)युक्तं कर्म. एवमेव कर्तृकर्मपदे सर्वत्र भवत इति निश्चयवन्तो जनाः. ↩︎