हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम्॥ 25 ॥
शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते।
शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि॥ 26 ॥
जाता शिखण्डिनी1 प्राग्यथा शिखण्डी तथावगच्छामि।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति॥ 27 ॥
श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णके।
आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः॥ 28 ॥
-
द्रुपदपुत्री. ↩︎