११ धनदः

यथेयं वाग्देवी सुकविमुखवासव्यसनिनी कुहूकण्ठीकण्ठे विलसति तथा चेदनवधिः।
तदा भूमीभागे निरुपमतमः किञ्चिदिव वा समाधत्ते साम्यं धनदभणितीनां मधुरिमा॥ 22 ॥