यश्चत्वारि शतानि बन्धघटनालंकारभाञ्जि द्रुतं श्लोकानां विदधाति कौतुकवशादेकाहमात्रे कविः। ख्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्टेः कलानां निधिः सङ्गीतागमनागरो विजयते श्रीज्योतिरीशः कृती॥ 18 ॥