०६ जगन्नाथपण्डितः

कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः।
नृत्यपि पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः॥ 13 ॥
माधुर्यैरपि धुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकादीनाम्।
वन्घ्यैव माधुरीयं पण्डितराजस्य कवितायाः॥ 14 ॥
गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम्।
वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः॥ 15 ॥
मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषाञ्चित्खलु हि विदधीरन्नपि मुदम्।
ध्रुवं ते जीवन्तोऽप्यहह 1मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः॥ 16 ॥


  1. शवाः. ↩︎