शश्वद्बाणद्वितीयेन नमदाकारधारिणा। धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः॥ 9 ॥ 1समुद्दीपितकन्दर्पा 2कृतगौरीप्रसाधना। हरलीलेव लोकस्य विस्मयाय 3बृहत्कथा॥ 10 ॥ अतिदीर्घ4जीविदोषाद्व्यासेन यशोऽपहारितं हन्त। कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः॥ 11 ॥ कामोद्दीपिका; [पक्षे] भस्मीकृतमदना. ↩︎ वर्णितगौरीमाहात्म्या; [पक्षे] अलङ्कृता पार्वती यया. ↩︎ गुणाढ्यकृतो ग्रन्थः. ↩︎ जीवित्वम्. ↩︎