०३ गणेश्वरः

गणेश्वरकवेर्वचोविरचनैकवाचस्पतेः प्रसन्नगिरिनन्दिनीचरणपल्लवं ध्यायतः।
तथा जयति भारती भगवती यथा सा सुधा मुधीभवति सुभ्रुवामधरमाधुरी म्लायति॥ 8 ॥