०२ कालिदासः

कवयः कालिदासाद्याः कवयो वयवप्यमी।
पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम्॥ 2 ॥
निर्गतामलवाक्यस्य कालिदासस्य सूक्तिषु।
प्रीतिर्मधुरसार्द्रासु मञ्जरीष्विव जायते॥ 3 ॥
कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च।
अन्ये कवयः कपयश्चापलमात्रं परं दधति॥ 4 ॥
वयमपि कवयः कवयः कवयोऽपि च कालिदासाद्याः।
दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः॥ 5 ॥
1साकूत2मधुरकोम3लविलासिनीकण्ठकूजितप्राये।
शिक्षासमयेऽपि मुदे हतलीलाकालिदासोक्ती॥ 6 ॥

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा।
अद्यापि तत्तुल्यकवेरभावादनामिका 4सार्थवती बभूव॥ 7 ॥


  1. साभिप्रायम्. ↩︎

  2. रसोत्कर्षाधायकरसनिष्ठगुणवत्. ↩︎

  3. शब्दगुणशालि. ↩︎

  4. अन्वर्था. ↩︎