०१ अमरसिंहः

प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने।
अगम्यायामन्यैर्दिशि परिणतावर्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते॥ 1 ॥