किं तेन किल काव्येन मृद्यमानस्य यस्य ताः।
उदधेरिव नायान्ति रसामृतपरम्पराः॥ 1 ॥
किं तेन काव्यमधुना प्लाविता रसनिर्झरैः।
जडात्मानोऽपि नो यस्य भवन्त्यङ्कुरितान्तराः॥ 2 ॥
यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः।
तदात्र भूयः किमनर्थपण्डितैः कुकाव्यहहुतयो निवेशिताः॥ 3 ॥
तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु।
कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम्॥ 4 ॥
या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी।
या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कन्धरास्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः॥ 5 ॥
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।
नास्ति येषां यशः1काये जरामरणजं भयम्॥ 1 ॥
प्रस्तावे हेतुयुक्तानि यः पठत्यविशङ्गितः।
स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः॥ 2 ॥
सुकवेः शब्दसौभाग्यं सुकविर्वेत्ति नापरः।
2कलादवन्न जानाति परः कङ्कणचित्रताम्॥ 3 ॥
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
उत्पादका न बहवः कवयः शरभा इव॥ 4 ॥
कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः।
न ह्य3कूपारवत्कूपा वर्धन्ते विधुकान्तिभिः॥ 5 ॥
कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि।
यत्र हंसवयाम्सीव भुवनानि चतुर्दश॥ 6 ॥
अपूर्वो भाति भारत्याः काव्यामृतफले रसः।
चर्वणे सर्वसामान्ये स्वादुवित्केवलं कविः॥ 7 ॥
उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम्।
जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम्॥ 8 ॥
ते धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः।
यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः॥ 9 ॥
अमृतोत्प्रेक्षणे रागं कुर्वन्त्युरगवज्जनाः।
कविर्गरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत्॥ 10 ॥
काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि।
तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति॥ 11 ॥
अनन्त4पदविन्यासरचना 5सरसा कवेः6।
7बुधो यदि समीपस्थो न 8कुजन्मा पुरो यदि॥ 12 ॥
कविः करोति पद्यानि लालयत्युत्तमो जनः।
तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम्9॥ 13 ॥
कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः।
सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता॥ 14 ॥
कविः पिता पोषयति पालको रसिकः पतिः।
कवितायुवतेर्नूनं सोदरास्तु विवेकिनः॥ 15 ॥
तत्त्वं किमपि काव्यानां जानाति विरलो भुवि।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम्॥ 16 ॥
साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी।
ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः॥ 17 ॥
कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति।
कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशः1प्रसरः॥ 18 ॥
कविवाक्यामृततीर्थस्नानैः पूता भृशं यशोदेहाः।
येषां त एव भूपा जीवन्ति मृता वृथैवान्ये॥ 19 ॥
काव्यप्रपञ्चचञ्चू2 रचयति काव्यं न सारविद्भवति।
तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः॥ 20 ॥
विगुणोऽपि काव्यबन्दः साधूनामाननं गतः स्वदते।
फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति॥ 21 ॥
विद्वत्कवयः कवयः केवलकवयस्तु केवलं कपयः।
कुलजा या सा जाया केवलजाया तु केवलं माया॥ 22 ॥
अवयः केवलकवयः कीराः स्युः केवलं धीराः।
वीराः पण्डितकवयस्तानवमन्ता तु केवलं गवयः॥ 23 ॥
अहमपि परेऽपि कवयस्तथापि परमन्तरं परिज्ञेयम्।
ऐक्यं रलयोरपि यदि तत्किं करभायते कलभः॥ 24 ॥
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥ 25 ॥
यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा।
उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव॥ 26 ॥
शीलाविज्जामारुलामोरिकाद्याः काव्यं कर्तुं सन्तु विज्ञाः स्त्रियोऽपि।
विद्यां वेत्तुं वादिनो निर्विजेतुं दातुं वक्तुं यः प्रवीणः स वन्द्यः॥ 27 ॥
सहृदयाः कविगुम्फनिकासु ये कतिपयास्त इमे न विशृङ्खलाः।
रसमयीषु लतास्विव षट्पदा हृदयसारजुषो न मुखस्पृशः॥ 28 ॥
लङ्कापतेः संकुचितं यशो यद्यत्कीर्तिपात्रं रघुराजपुत्रः।
स सर्व एवा3दिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः॥ 29 ॥
जयन्ति ते पञ्चमनादमित्रचित्रोक्तिसंदर्भविभूषणेषु।
सरस्वती यद्वदनेषु नित्यमाभाति वीणामिव वादयन्ती॥ 30 ॥
कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु।
कुर्यादनार्द्रेषु किमङ्गनानां केशेषु कृष्णागुरुधूपवासः॥ 31 ॥
महीपतेः सन्ति न यस्य पार्स्वे कवीश्वरास्तस्य कुतो यशांसि।
भूपाः कियन्तो न बभूवुरुर्व्यां नामापि जानाति न कोऽपि तेषाम्॥ 32 ॥
किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण।
किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम्॥ 33 ॥
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्।
यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनायाः॥ 34 ॥
कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्द्रेषु पदेषु केवलम्।
वदद्भिरङ्गैः कृतरोमविक्रियैर्जनस्य तूष्णीं भवतोऽयमञ्जलिः॥ 35 ॥
स्वप्रज्ञया कुञ्चिकयेव कञ्चित्सारस्वतं वक्रिमभङ्गिभाजम्।
कवीश्वरः कोऽपि पदार्थकोशमुद्धाट्य विश्वाभरणं करोति॥ 36 ॥
तर्केषु कर्कशतराः स्युरथापि पुंसां काले भवन्ति मृदवः कवितासु वाचः।
दैत्येन्द्रशैलकुलिशं दयिताकपोले नाथस्य कोमलमुदाहरणं नखं नः॥ 37 ॥
ख्याता नराधिपतयः कविसम्श्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम्।
राज्ञा समोऽस्ति न कवेः परमोपकारी राज्ञो न चास्ति कविना सदृशः सहायः॥ 38 ॥
तेऽनन्तवाङ्मयमहार्पणवदृष्टपाराः साम्यात्रिका इव महाकवयो जयन्ति।
यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसुवदनान्यधिवासयन्ति॥ 39 ॥
त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुरेकश्चकास्ति कविता सविता द्वितीयः।
शंसन्ति यस्य महिमातिशयं शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि॥ 40 ॥
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः।
सम्रुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम्॥ 41 ॥
स्फारेण सौरभभरेण किमेणनाभेस्तद्धानसारमपि सारमसारमेव।
स्रक्सौमनस्यपि न पुष्यति सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी॥ 42 ॥
अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः। निजघनमकरन्दस्यन्दपूर्णालवालः कलशसलिलसेकं नेहते किं रसालः॥ 43 ॥
पदव्यक्तिव्यक्तीकृतसहृदयानन्दसरणौ कवीनां काव्ये न स्फुरति बुधमात्रस्य धिषणा।
नवक्रीडावेशव्यसनपिशुनो यः कुलवधूकटाक्षाणां पन्थाः स खलु गणिकानामविषयः॥ 44 ॥
अयं मे वाग्गुम्फो विददपदवैदग्ध्यमधुरः स्फुरद्बन्धो वन्घ्यो जडहृदि कृतार्थः कविहृदि।
कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः किशोरे निःसारः स तु किमपि यूनः स्थगयति॥ 45 ॥
मदुक्ति1श्चेदन्त2र्मदयति सुधीभूय सुधियः किमस्या नाम स्याद3रसपुरुषानादरभरैः।
यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते॥ 46 ॥
भुजतरुवनच्छायां येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया।
स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे॥ 47 ॥
यदि प्रभुरुदारधीः सुरसकाव्यकौतूहलस्तथैव च सभासदाः सदसि तद्गुणग्राहिणः।
4सुवर्णसदलंकृतिर्भवति तत्र नृत्योद्यता मदीयरसनानटी 5रसघटीयमानन्दभूः॥ 48 ॥
वदन्तु 6कतिचिद्धटात्खफछठेति वर्णाञ्छठा घटः पट इतीत7रे पटु रटन्तु वाक्पाटवात्।
वयं बकुलमञ्जरीगलदमन्दमाध्वीझरीधुरीणपदरीतिभिर्भणितिभिः प्रमोदामहे॥ 49 ॥
हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात्।
तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं क्रुद्धैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः॥ 50 ॥
अर्थान्केचिदुपासते कृपणवत्केचित्त्वलं कुर्वते वेश्यावत्खलु धातुवादिन इवोद्बध्नन्ति केचिद्रसान्।
1अर्था2लङ्कृतिसद्र3सद्रवमुचां वाचां प्रशस्तिस्पृशां कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह॥ 51 ॥
मन्दं निक्षिपते 4पदानि परितः 5शब्दं समुद्वीक्षते 6नानार्थाहरणं च काङ्क्षति7 मुदा8लंकारमाकर्षति।
आदत्ते सकलं सुवर्णनिचयं9 धत्ते 10रसान्तर्गतं दोषा11न्वेषणतत्परो विजयते चोरोपमः सत्कविः॥ 52 ॥
स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति।
त्राणं येऽत्र यशोभये वपुषि वः कुर्वन्ति काव्यामृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः॥ 53 ॥
कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गारवीरादिकम्।
को दोषो भविता यदत्र कविताशीलैः समाश्रीयते पन्था व्यासवसुं12धराश्रुतिभवग्रन्थादिषु प्रेक्षितः॥ 54 ॥
ते भूमीपतयो जयन्ति नतयो येषां द्विषद्भूभृतां ते वन्द्या यतयो विशन्ति मतयो येषां परे ब्रह्मणि।
ते श्लाघ्याः कवयो वयोमदभरव्याजृम्भमाणाङ्गनादृक्पाता इव तोषयन्ति हृदयं येषां गिरां संचयाः॥ 55 ॥
भूतावेशनिवेशिताशय इव श्लोकं करोत्याशु यः श्लाघन्ते कविरद्भुतोऽयमिति तं मिथ्या जना विस्मिताः।
द्वित्राण्येव पुरः पदानि रचयन्पश्चात्समालोचयन्दूरं यः कवितां निनीषति कविः कामीव स स्तूयाताम्॥ 56 ॥
सत्यं सन्ति गृहे गृहेऽपि कवयो येषां वचश्चातुरी स्वे हर्म्ये कुलकन्यकेव लभते स्वल्पैर्गुणैर्गौरवम्।
दुष्प्रापः स तु कोऽपि कोविदमतिर्यद्वाग्रसग्राहिणां पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा॥ 57 ॥
धन्यास्ते कवयो यदीयरसनारूक्षाध्वसंचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रामति।
अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पीनोत्तुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते॥ 58 ॥
साहित्ये सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्के वा मयि संविधातरि समं लीलायते भारती।
शय्या वास्तु मृदूत्तरच्छदपटा दर्भाङ्कुरैरास्तृता भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम्॥ 59 ॥
येषां कोमलकाव्यकौशलकलालीलावती भारती तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते।
यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्तैः किं मत्तकरीन्द्रकुम्भशिखरे नारोपणीयाः शराः॥ 60 ॥
तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला।
या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवते1 न मृदुला सा किं प्रसूनावली॥ 61 ॥
माचङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी।
कस्तूरीघ2नसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययोर्योगः कर्णरसायनं सुकृतिनः कस्यापि संजायते॥ 62 ॥
यत्सारस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं तल्लभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम्।
कासारे दिवसं वसन्नपि पयःपूरं परं पङ्किलं कुर्वाणः कमलाकरस्य लभते किं सौरभं सैरिभः3॥ 63 ॥
अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये॥ 64 ॥
वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः।
भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोऽपि विद्यापतेः ख्यातिं यान्ति नरेश्वराः कविवरैः स्फारैर्न भेरीरवैः॥ 65 ॥
येऽप्यासन्निभकुम्भशायितपदा येऽपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः।
तांल्लोकोऽयमवैति लोकतिलकान्स्वप्नेऽप्यजातानिव भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना॥ 66 ॥
मौलौ मन्दारदामभ्रमदलिपलीलकाकलीं श्रोणिबिम्बे कूजत्काञ्चीकलापं चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम्।
उत्सङ्गे कीरगीतिं स्तनभुवि मसृणं वल्लकीपञ्चमं वा यत्काव्ये दत्तकर्णा शिव शिव मनुते भारतीं भारमेव॥ 67 ॥
कस्यांचिद्वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश्छिन्नं किं नस्तदा स्यात्प्रथितगुणवतां काव्यकोटीश्वराणाम्।
वाहाश्चेद्गन्धवाहाधिकविहितजवाः पञ्चषाश्चान्दखञ्जाः का हानिः शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य॥ 68 ॥