०४ नाट्यप्रशंसा

प्रत्यङ्कमङ्कुरितसर्वरसावतारनव्योल्लसत्कुसुमराजिविराजिबन्धम्।
घर्मेतराम्शुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमतिमञ्जुलसम्विधानम्॥ 1 ॥
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्॥ 2 ॥