०३ काव्यप्रशंसा

कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥ 1 ॥
निरव1द्यानि पद्यानि यद्यनाढ्यस्य का क्षतिः।
भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत्॥ 2 ॥

याता यान्ति च यातारो लोकाः शोकाधिका भुवि।
काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी॥ 3 ॥
नवोक्तिर्जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।
विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम्॥ 4 ॥
सद्भिर्भाव्ये हिते काव्ये वृथा दुर्जनगर्जनम्।
चण्डीशाङ्गीकृते चन्द्रेऽरुन्तुदः2 किं विधुन्तुदः॥ 5 ॥

त एव पदविन्यासास्ता एवार्थविभूतयः।
तथापि नव्यं भवति काव्यं ग्रथनकौशलात्॥ 6 ॥
सरसापि कवेर्वाणी हरिनामाङ्गिता यदि।
सादरं गृह्यते तज्ज्ञैः शुक्तिर्मुक्तन्विता यथा॥ 7 ॥
काव्यस्याम्रफलस्यापि कोमलस्येतरस्य3 च।
बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत्॥ 8 ॥

शब्दशक्त्यैव कुर्वाणा 4सर्वदानवनिर्वृतिम्।
5काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी॥ 9 ॥

श्लिष्टा6 सभङ्गा7 सद्वर्ण्या निर्दोषा सद्गुणा मृदुः।
नानाभङ्गीविलासा 1चेत्कृतिर्वि8कृतिरन्यथा॥ 10 ॥

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्॥ 11 ॥
उमामिमां समुद्वीक्ष्य शीतदीधितिशेखर।
एषापि भारती भानुयुतं सीत्कृत्य नर्तति॥ 12 ॥
9अध्वनि 10पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम्।
काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम्॥ 13 ॥

अविदितगुणापि सुकवेर्भणितिः11 कर्णेषु वमति12 मधुधाराम्।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला॥ 14 ॥

ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम्।
पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति॥ 15 ॥
कृतमन्दपदन्यासा13 विक14चश्रीश्चारु15शब्दभङ्गवती।
कस्य न कम्पयते क16ञ्जरेव जीर्णस्य सत्कवेर्वाणी॥ 16 ॥

सरसा सालङ्कारा सुपदन्यासा सुवर्णमयमूर्तिः।
आर्या तथैव भार्या न लभ्यते पुण्यहीनेन॥ 17 ॥
सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि।
कविहृदयं विटहृदयं सरलं तरलं च सत्वरं भवति॥ 18 ॥
17भ्रमरहिता सा कचवत्स्त्रीणां कुचवच्च 18सरसहिता।
19 लसदक्षरपीयूषाधरवत्कविता महात्मनां जीयात्॥ 19 ॥

सत्पात्रो2पनयोचित3सत्पतिबिम्बाभिनववस्तु।
कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च॥ 20 ॥

सत्सूत्रसम्विधानं सदलङ्कारं सुवृत्तमच्छिद्रम्।
को धारयति न कण्ठे सत्काव्यं माल्यमर्घ्यं च॥ 21 ॥
यदसेवनीयम4सताममृत5प्रायं 6सुवर्णविन्यासम्।
7सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः॥ 22 ॥

सत्कविरसनाशूर्पी1निस्तु8षतरशब्दशालिपाकेन9
तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी॥ 23 ॥

काव्यस्याक्षरमैत्रीभाजो10 न च कर्कशा11 न च ग्राम्याः12
शब्दा अपि पुरुषा अपि साधव13 एवार्थबोधाय॥ 24 ॥

14अन्तर्गूढा15नर्थान16व्यञ्जयतः 17प्रसादरहितस्य।
18संदर्भस्य नदस्य च न रसः19 प्रीत्यै रसज्ञानाम्॥ 25 ॥

आन्तरमिव बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम्।
असती सत्कविसूक्तिः काचघटीति त्रयं वेद॥ 26 ॥
न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेयं कविता कवीनाम्।
लोकोत्तरे पुंसि निवेश्यमाना पुत्रीव हर्षं हृदये करोति॥ 27 ॥
अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम्॥ 28 ॥
सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः।
20शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः॥ 29 ॥

नमो नमः काव्यरसाय तस्मै निषिक्तमन्तः पृषतापि यस्य।
सुवर्णतां वक्त्रमुपैति साधोर्दुर्वर्णतां याति च दुर्जनस्य॥ 30 ॥
अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाभः।
नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः॥ 31 ॥
रे रे खलाः शृणुत मद्वचनं समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः।
कुर्मस्तदत्र भवतामुपकारकारि काव्यामृतं पिबत तत्परमादरेण॥ 32 ॥
वाणी ममैव सरसा यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम्।
सायंतनीषु मकरन्दवतीषु भृङ्गाः किं मल्लिकासु परमन्त्रणमारभन्ते॥ 33 ॥
आख्यातनामरचनाचतुरस्रसन्धिसद्धात्वलङ्कृतिगुणं सरसं सुवृत्तम्।
आसेदुषामपि दिवं कविपुङ्गवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम्॥ 34 ॥
सरसपरिषत्कर्णश्राव्यं कवित्वरसायनं विरसमनसां नेतुं नेहामहे श्रवणान्तिकम्।
मृगमदरसं बिम्बौष्ठीनां कठोरकुचोचितं जघननिकटे क्लिन्ने लिम्पेज्जरन्महिषस्य कः॥ 35 ॥
अमृतजलधेः पायं पायं पयांसि पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ।
तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा गिरः 2प्रतिभावताम्॥ 36 ॥

प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः सभासु पठितो भवत्यसमसाधुवादाप्तये।
प्रथामुपगतस्तनोत्यतितरामुदारं यशो न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः॥ 37 ॥
समुल्लासो वाचां सरसमधुनिष्यन्दलहरी समुन्मेषद्वेषी सकलरसपोषोपजनकः।
न केषामाधत्ते मनसि परितोषं नवनवैर्विलासैरुन्मीलद्विकचितमधू3लीपरिमलः॥ 38 ॥

यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियां किमस्या नाम स्यादरसपुरुषानादरभरैः॥ 39 ॥
परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसां कदाचिच्चाभ्यासाद्भजति ननु वैरस्यमधिकम्।
प्रियाबिम्बौष्ठे वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः॥ 40 ॥
4प्रसत्तेर्यः पात्रं तिलकयति यं सूक्तिरचना य आद्यः स्वादूनां श्रुतिचुलुकलेह्येन मधुना।
यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो वाणीनां कविवृषनिषेव्यो विजयते॥ 41 ॥

सदा मध्ये यासामियममृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्।
प्रसादं ता एता धनपरिचिताः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः॥ 42 ॥
नैव व्याकरणज्ञमेति पितरं न भ्रातरं तार्किकं दूरात्सङ्कुचितेव गच्छति पुनश्चाण्डालवच्छान्दसात्।
मीमाम्सानिपुणं नपुम्सकमिति ज्ञात्वा निरस्तादरा काव्यालङ्करणज्ञमेत्य कविताकान्ता वृणीते स्वयम्॥ 43 ॥
रम्यार्थोक्तितनूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरञ्जकरीतिवृत्तिकवितापाकं वयो बिभ्रती।
भावालंकरणोचितागमवती सर्वत्र निर्दोषताशय्या5मञ्चति कामिनीव कविता कस्यापि पुण्यात्मनः॥ 44 ॥

निर्ह्रादं क्रकचक्षतैः किरति किं कर्णामृतं वल्लकी किं वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः।
इत्थं तारसकर्कशां धियमसौ जल्पैर्विकाल्याकुलैराकूटं कमनीयकान्तिदमितं कार्यं कथं स्यन्दते॥ 45 ॥
यन्त्राकृष्टसुवर्णसूत्रमिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः।
यत्राप्युल्लसदंशुकान्तरलसत्कान्ताकुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः॥ 46 ॥
गुम्फः पङ्कजकुङ्भलद्युतिरुरस्तत्केसरोल्लासवानर्थोऽप्यन्तरसौरभप्रतिनिभं व्यङ्ग्यं चमत्कारि यत्।
द्वित्रैर्यद्रसिकैश्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः प्रमत्तकुकवेर्यत्किंचिदुज्जल्पितम्॥ 47 ॥
निन्द्यन्ते यदि नाम मन्दमतिभिर्वक्राः कवीनां गिरः स्तूयन्ते न च नीरसैर्मृगदृशां वक्राः कटाक्षच्छटाः।
तद्वैदग्ध्यविदां सतामपि मनः किं नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कलामैन्दवीम्॥ 48 ॥
सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम्।
यैर्दुर्वारसरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः॥ 49 ॥
वाणि त्वत्पदपद्मरेणुकणिका या स्वान्तभूमिं सतां सम्प्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते।
त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम्॥ 50 ॥


  1. उत्कृष्टानि. ↩︎ ↩︎ ↩︎

  2. मर्मस्पृक्. ↩︎ ↩︎ ↩︎

  3. कठिनस्येत्यर्थः. ↩︎ ↩︎ ↩︎

  4. सर्वकालं नवसौख्यम्; [पक्षे] सर्वेषां रक्षसामानन्दम्. ↩︎ ↩︎ ↩︎

  5. कविता; [पक्षे] काव्यस्य शुक्रस्य विद्या. संजीविनीत्यर्थः. ↩︎ ↩︎ ↩︎

  6. नानार्थशब्दयुक्ता. ↩︎ ↩︎

  7. पदच्छेदवैचित्र्यादनेकार्थपदवती. ↩︎ ↩︎

  8. रोगः. दुःखदत्वात्. ↩︎ ↩︎

  9. व्यङ्ग्यार्थशून्यम्. यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थः; [पक्षे] शिञ्चितशून्यम्. ↩︎ ↩︎

  10. अनुप्रासमात्रार्थं पदग्रहः परमुत्कृष्टो यत्र; [पक्षे] अत्यन्तचरणसम्लग्नम्. ↩︎ ↩︎

  11. उक्तिः. ↩︎ ↩︎

  12. वर्षति. ↩︎ ↩︎

  13. सुप्तिङन्तादि; [पक्षे] चरणः. ↩︎ ↩︎

  14. प्रफुल्लशोभा; [पक्षे] विगता कचश्रीः केशशोभा यस्याः. ↩︎ ↩︎

  15. चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती; [पक्षे] स्खलितशब्दवती. ↩︎ ↩︎

  16. शिरः. ↩︎ ↩︎

  17. भ्रमरेभ्यो भृङ्गेभ्यो हिता; [पक्षे] भ्रमेण भ्रान्त्या रहिता. ↩︎ ↩︎

  18. सरैर्मालाभिः सहिता; [पक्षे] सरसेभ्यो हिता. ↩︎ ↩︎

  19. लसच्छोभायमानमक्षरमविनाशि पीयूषं तद्वन्माधुर्यं यस्मिन्; [पक्षे] लसन्त्यक्षराणि वर्णा एव पीयूषं यस्याम्. ↩︎ ↩︎

  20. काश्मीरदेशम्. ↩︎