०२ विद्याप्रशंसा

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति संचयात्॥ 1 ॥
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥ 2 ॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनु1त्तमम्।
अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा॥ 3 ॥

हर्तुर्न गोचरं याति दत्ता भवति विस्तृता।
कल्पान्तेऽपि न या नश्येत्किमन्यद्विद्यया समम्॥ 4 ॥
ज्ञातिभिर्वर्ण्यते2 नैव चोरेणापि न नीयते।
दाने नैव क्षयं याति विद्यारत्नं महाधनम्॥ 5 ॥

संयोजयति विद्यैव नीचगापि नरं सरित्।
समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम्॥ 6 ॥
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये 3प्रतिपत्तये।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा॥ 7 ॥

शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना।
न गुह्यगोपने शक्तं न च दंशनिवारणे4॥ 8 ॥

सद्विद्या यदि का चिन्ता 5वराकोदरपूरणे।
शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन्॥ 9 ॥

अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक्।
प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति॥ 10 ॥
वसुमतीपतिना नु सरस्वती बलवता रिपुणापि न नीयते।
समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते॥ 11 ॥
श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः॥ 12 ॥
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥ 13 ॥
मातेव रक्षति पितेव हिते नियुङ्क्ते6 कान्तेव चापि रमयत्यपनीय खेदम्।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या॥ 14 ॥

विद्या नाम नरस्य रूपमधिकं 7प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा दैवता विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥ 15 ॥

विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु॥ 16 ॥


  1. नास्त्युत्तमं यस्मात्. ↩︎

  2. विभज्यते. ↩︎

  3. ज्ञानाय. ↩︎

  4. मक्षिका. ↩︎

  5. क्षुल्लकम्. ↩︎

  6. नियोजयति. ↩︎

  7. अन्तर्हितम्. ↩︎