भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम्॥ 1 ॥
सुभाषितेन गीतेन युवतीनां च लीलया।
मनो न भिद्यते यस्य स योगी ह्यथवा पशुः॥ 2 ॥
सुभाषितमयैर्द्रव्यैः सङ्ग्रहं न करोति यः।
सोऽपि 1प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम्॥ 3 ॥
संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे।
सुभाषितरसास्वादः सङ्गतिः सुजने जने॥ 4 ॥
सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः।
विनापि कामिनीसङ्गं कवयः सुखमासते॥ 5 ॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥ 6 ॥
धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम्।
इत्यादिगुणरत्नानां सङ्ग्रही 2नावसीदति॥ 7 ॥
सङ्गीतमपि साहित्यं सरस्वत्याः स्तनद्वयम्।
एकमापातमधुरमन्यदालोचनामृतम्॥ 8 ॥
शिशुर्वेत्ति पशुर्वेत्ति वेत्ति नागरसं फणी।
साहित्यरसमाधुर्यं शङ्करो वेत्ति वा न वा॥ 9 ॥
द्राक्षाम्लानमुखी जाता शर्करा 3चाश्मतां गता।
सुभाषितरसस्याग्रे सुधा भीता दिवं गता॥ 10 ॥
संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम्।
सूक्तं दधति सुवर्णं4 कल्याणमनर्घमिह धन्याः॥ 11 ॥
कथमिह मनुष्यजन्मा सम्प्रविशति सदसि विबु5धगमितायाम्।
येन न सुभाषितामृतमाह्लादि निपीतमातृप्तेः॥ 12 ॥
6अकलितशब्दालङ्कृतिरनुकूला7 स्ख8लितपदनिवेशापि।
अभिसारिकेव रमयति सूक्तिः9 सोत्क10र्षशृङ्गारा॥ 13 ॥
आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः।
अकलितरसालमुकुलो न कोकिलः 1कलमुद2ञ्चयति॥ 14 ॥
अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि।
क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु॥ 15 ॥
यस्य वक्त्रकुहरे3 सुभाषितं नास्ति नाप्यवसरे प्रजल्पति।
आगतः सदसि धीमतामसौ लेप्य4निर्मित इवावभासते॥ 16 ॥
सुभाषितं हारि विशत्यधोगलान्न दुर्जनस्यार्क5रिपोरिवामृतम्।
तदेव धत्ते हृदयेन सज्जनो हरिर्महा6रत्नमिवातिनिर्मलम्॥ 17 ॥
नायं प्रयाति विकृतिं7 विरसो न यः स्यान्न क्षीयते बहुजनैर्नितरां निपीतः।
जाड्यं8 निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाषितरसोऽन्य9रसातिशायी॥ 18 ॥
धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः।
उच्चित्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति॥ 19 ॥
किं हारैः किमु कङ्कणैः किमसमैः कर्णा10वतम्सैरलं कैयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः11।
पुंसामेकमखण्डितं पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितपार्वणा12मृतकर13स्यन्दोपमाः सूक्तयः॥ 20 ॥
खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति।
अज्ञाञ्ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः॥ 21 ॥