लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि।
पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि॥ 1 ॥
रविमावसते सतां क्रियायै सुधया तर्पयते सुरान्पितॄंश्च।
तमसां निशि मूर्छतां विहन्त्रे हरचूडानिहितात्मने नमस्ते॥ 2 ॥
स्वर्भानुप्रतिवारपा1रणमिलद्दन्तौघयन्त्रो2द्भवश्व3भ्रालीप4तयालुदीधितिसुधासारस्तुषारद्युतिः।
5पुष्पेष्वासनतत्प्रियाप6रिणयानन्दाभिषेकोत्सवे देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये॥ 3 ॥