1खण्डितानेत्र2कञ्जालिमञ्जुरञ्जनपण्डिताः।
मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः॥ 1 ॥
शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः।
मण्डलमुदितं वन्दे कुण्डलमा3खण्डलाशायाः॥ 2 ॥
अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति॥ 3 ॥
प्राचीकुङ्कुमतिलकं पूर्वाचलरोहणैकमाणिक्यम्।
त्रिभुवनगृहैकदीपं वन्दे लोकैकलोचनं देवम्॥ 4 ॥
कटुभिरपि कठोरचक्रवाकोत्करविरहज्वरशान्तिशीतवीर्यैः।
तिमिरहतमयं महोभिरञ्जञ्जयति जगन्नयनौघमुष्णभानुः॥ 5 ॥
यद्बिम्बमम्बरमणिर्यदपां प्रसूतिर्नक्तं निषिञ्चति यदग्निशिखासु भासः।
ज्योत्स्ना निशासु हिमधाम्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु तस्मै॥ 6 ॥
यो रक्ततामतितरामतुलं दधानो दिक्प्रौढदारनृह (?) मोहनवाप्तवासः।
योषिद्द्वयीपतिविडम्बनभृत्स शश्वत्पायादपायसमुदायहरो रविर्नः॥ 7 ॥
ब्रह्माण्डसम्पुटकलेवरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य।
आलोकितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रणमामि नित्यम्॥ 8 ॥
सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु।
कान्ताः कुङ्कुमशङ्कया करतले मृद्गन्ति लग्नं च यत्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः॥ 9 ॥
एकस्मिन्नयने भृशं तपति यः काले स दाहक्रमो येनातन्यत यत्प्रकाशसमयेनैषां पदं दुर्लभम्।
सा व्योमावयवस्य यन्न विदिता लोके गतिः शाश्वती श्रीसूर्यः सुरसेवितोऽपि हि महादेवः स नस्त्रायताम्॥ 10 ॥
4जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः॥ 11 ॥
भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये।
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य॥ 12 ॥
साटोपव्योमहट्टोषित5रजनिवणिङ्नायकोन्मुक्ततारा मुक्ताहारापहारात्तलखगरवप्रोत्थितकीर्तिशान्त्यै।
कर्षन्नम्भोजकुम्भोदरकुहरबहिर्निःसरत्षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मषोन्मूलनं वः॥ 13 ॥
6चक्री 7चक्रारपङ्क्ति 1हरिरपि च 2हरीन्धूर्जटिर्धू3र्ध्वजान्तानक्षं8 नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं9 कुबेरः।
रहः10 सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः॥ 14 ॥
किं छत्रं किं नु रत्नं11 तिलकमुत तथा कुण्डलं कौस्तुभो वा चक्रं वा 12वारिजं वेत्यमरयुवतिभिर्य13द्बलिद्वेषिदेहे।
ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण॥ 15 ॥
शीर्ण7घ्राणाङ्घ्रिपाणीन्व्र14णिभिरप15घनैर्घर्घराव्यक्तघोषान्दीर्घाघ्रा16तानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः।
17घर्मांशोस्तस्य वोऽन्तर्द्ध्विर्गुणघन4घृणानिघ्ननिर्विघ्नवृत्तेर्दत्तार्घाः सिद्धिसंघैर्विदधतु घृणयः5 शीघ्रमंहोविघातम्6॥ 16 ॥