०१ किरणाः

करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासः।
क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन॥ 17 ॥
युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयरागभाजः।
कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः॥ 18 ॥
सिन्दूराणीव सीदत्कृपणकुलवधूमूर्ध्नि ये संचरन्तः प्रेक्ष्यन्ते दिक्षु शैलाः शिखरभुवि लसत्पद्मरागाङ्कुरा यैः।
धुन्वन्ते ध्वान्तधाराः सह दुरितचयैर्दूरदृश्याः सुदृश्याः पान्तु त्वां पद्मबन्धोरकरणकिरणाः पूरणाः पद्मबन्धोः॥ 19 ॥

तुरगाः

अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा।1
स्फुरितमध्यगतारु2णनायका 3मरकतैकलतेव नभश्रियः॥ 20 ॥


  1. मेघाः; [पक्षे] स्तनौ. ↩︎

  2. अरुणरूपो नायकः सारथिर्यस्याः; [पक्षे] अरुण आरक्तो नायको हारमध्यमणिः. ↩︎

  3. सूर्यतुरङ्गमाणां हरितवर्णत्वादित्यर्थः. ↩︎