+12 दशावताराः

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते।
पौलस्त्यं जयते 1हलं 2कलयते कारुण्यमातन्वते म्लेच्छान्मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥ 1 ॥

यस्यालीयत 3शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी।
क्रोधे क्षत्रगणः शरे दशमुखः पामौ प्रलम्बासुरो ध्याने विश्व4मसावधार्मिककुलं कस्मैचिदस्मै नमः॥ 2 ॥

5पाठीनः कमठः किटिर्नरहरिः6 खर्वाकृतिर्भार्गवो रामः कंसनिषूदनो 7दशबलः कल्की च नारायणः।
युष्माकं स विभूतयेऽस्तु भगवान्सेतुर्भवाम्भोनिधावुत्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः॥ 3 ॥

वेदा येन समुद्धृता वसुमती पृष्ठे धृताप्युद्धृता दैत्येशो नखरैर्हतः फणिपतेर्लोकं बलिः प्रापितः।
क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा दोषवती धराप्ययवना पायात्स नारायणः॥ 4 ॥


  1. लाङ्गलम्. ↩︎

  2. धारयते. ↩︎

  3. त्वक. ↩︎

  4. खङ्गे. ↩︎

  5. मत्स्यः. ↩︎

  6. वराहः. ↩︎

  7. बुद्धः. ↩︎