उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः।
कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः॥ 210 ॥
यवनीनयनाम्बुधोरणीभिर्धरिणीनामपनीय तापवह्निम्।
सुकृतद्रुमसेकमाचरन्तं धृतकल्कं प्रणमामि निर्विकल्पम्॥ 211 ॥
प्रेङ्खद्वाजितरङ्गमुन्मदगजग्राहप्रगल्भं भटव्यावल्गत्स्फुटपुण्डरीकनिलयं 1डिण्डीरपिण्डावलिम्।
म्लेच्छानीकमहार्णवं सुविपुलं सङ्घ्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्द्यतु2 स वः 3कल्कानि कल्की हरिः॥ 212 ॥