2)षट्चक्रे 1क्रमभा2वनाप3रिगतं हृत्पद्मध्यस्थितं संपश्यञ्छिवरूपिणं ल4यवशादात्मानम5ध्याश्रितः।
युष्माकं मधुसूदनो बुधवपुर्धारी स भूयान्मुदे यस्तिष्ठेत्क6मलासने 7कृतरुचिर्बुद्धैकलिङ्गा8कृतिः॥ 203 ॥
रेतोरक्तमयान्यमूनि 9भविनां विण्मूत्रपूर्णोदराण्यालोक्येव कलेवराणि विगलत्तोयार्द्ररन्ध्राणि यः।
मायाजालनि10यन्त्रितानि घृणया नोन्मीलयत्यक्षिणी निर्व्याज11प्रणिधाननिश्चलमतिर्बुद्ध्यै स बुद्धोऽस्तु वः॥ 204 ॥
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः॥ 205 ॥
आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः।
उत्सृष्टम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुःक्षोभं स वोऽव्याज्जिनः॥ 206 ॥
बद्ध्वा पद्मासनं यो नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तौ12 च शान्तौ समरसमिलितौ चन्द्रसूर्याख्यवातौ।
पश्यन्नन्तर्विशुद्धं किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोदौ निमग्नः स दिशतु भवतां ज्ञानबोधं बुधोऽयम्॥ 207 ॥
कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैर्भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन।
सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित इति वः पातु दृष्टो मुनीन्द्रः॥ 208 ॥
किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः किं वा राकाशशाङ्गो नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः।
साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः॥ 209 ॥