क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः। तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वाणः1 प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः॥ 202 ॥ शब्दः. ↩︎