१४ (राधा)

राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती दधिरिक्तपात्रे।
यस्याः स्तनस्तबकचूचुकलोलदृष्टिर्देवोऽपि दोहनधिया वृषभं दुदोह॥ 199 ॥
सुधाधाम्नः कान्तिस्तव वदनपङ्केरुहगुणैर्जितेव म्लानत्वं व्रजति सहसा प्राणदयिते।
वदत्येवं कान्ते दिवसविरहातङ्कचकिता तदङ्गे संलग्ना तव दिशतु राधा प्रियशतम्॥ 200 ॥