निष्पात्याशु हिमाम्शुमण्डलमधः पीत्वा तदन्तःसुधां कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात्।
भो देव द्विजरादि मादृशि सुरास्पर्शोऽपि न श्रेयसे मां मुञ्चेति 1तदर्थितो हलधरः पायादपायाज्जगत्॥ 195 ॥
प्रेमोन्नामितरेवतीमुखगतामास्वाद्य कादम्बरीमुन्मुत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचित्प्रस्खलत्।
रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं क्लेशं नः कवलीकरोतु सकलं पाकाभिरामं महः॥ 196 ॥
उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम्।
नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये॥ 197 ॥
-
चन्द्रेण प्रार्थितः. ↩︎