११ (कृष्णः)

इन्दीवरदलश्याममिन्दिरानन्दकन्दलम्।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम्॥ 99 ॥
देवः पायादपायान्नः स्मेरेन्दीवरलोचनः।
संसारध्वान्तविध्वंसहंसकंसनिषूदनः॥ 100 ॥
पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः॥ 101 ॥
दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः।
आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः॥ 102 ॥
हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम्।
राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया॥ 103 ॥
देहि मत्कन्दुकं राधे परिधाननिगूहितम्।
इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः॥ 104 ॥
चण्डचाण्डूरदोर्दण्डमण्डलीखण्डमण्डितम्।
अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः॥ 105 ॥
मीमांसार्पवसोमं लसदर्कं तर्कपद्मस्य।
वेदान्तविपिनसिंहं वन्दे गोविन्दसाभिधं ब्रह्म॥ 106 ॥
अवलोकितमनुमोदितमालिङ्गितमङ्गनाभिरनुरागैः।
अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः॥ 107 ॥
मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्यसनी।
ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति॥ 108 ॥
कठिनतरदामवेष्टनलेखासंदेहदायिनो यस्य।
राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः॥ 109 ॥
खिन्नोऽसि मुञ्च शैलं बिभृमो1 वयमिति वदत्सु शिथिलभुजः।
भरभुग्नविनतबाहुषु गोपेषु हसन्हरिर्जयति॥ 110 ॥

नीतं नवनवनीतं कियदिति पृष्टो यशोदया कृष्णः।
इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु॥ 111 ॥
राधामधुसूदनयोरनुदिनमुपचीयमानस्य।
प्रणयतरोरिव कुसुमं मिथोऽवलोकस्मितं पायात्॥ 112 ॥
श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः।
अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म॥ 113 ॥
तप्तं कैर्न तपोभिः फलितं तद्गोपबालानाम्।
लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म॥ 114 ॥
मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः।
मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः॥ 115 ॥
स्तनंधयन्तं जननीमुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम्।
स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम्॥ 116 ॥
भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः।
यः पाञ्चजन्यप्रतिबिम्बिभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति॥ 117 ॥
विहाय पीयूषरसं मुनीश्वरा ममाङ्घ्रिराजीवरसं पिबन्ति किम्।
इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु वः॥ 118 ॥
विलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम्।
लीलारविन्देन तया सरोषं पायाद्विटः कोऽप्यभिहन्यमानः॥ 119 ॥
स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु॥ 120 ॥
कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रमः।
मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः॥ 121 ॥
अतसीकुसुमोपमेयकान्तिर्यमुनातीरकदम्बमध्यवर्ती।
नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलं वः॥ 122 ॥
गायन्तीनां गोपसीमन्तिनीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम्।
निश्चाञ्चल्यामात्मवक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः॥ 123 ॥
पुञ्जीभूतं प्रेम गोपाङ्गनानां मूर्तीभूतं भागधेयं यदूनाम्।
एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे संनिधत्ताम्॥ 124 ॥
आनन्दमादधतमायतलोचनानामानीलमावलितकंधरमात्तवंशम्।
आपादमामुकुटमाकलितामृतौघमाकारमाकलयताममुमान्तरं नः॥ 125 ॥
त्वां पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोशबन्धः।
राधाकपोलमकरीलिखनेषु योऽयं कर्णावतंसकमलं विपुलीचकार॥ 126 ॥
उत्फुल्लमानसरसीरुहचारुमध्यनिर्यन्मधुव्रतभरद्युतिहारिणीभिः।
राधाविलोचनकटाक्षपरम्पराभिर्दृष्टो हरिस्तव सुखानि तनोतु कामम्॥ 127 ॥
गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य।
स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः॥ 128 ॥
अभिनवनवनीतप्रीतमाताम्रवेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम्।
हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कंचिदीडे॥ 129 ॥
अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः।
दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः॥ 130 ॥
कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम्।
असितसिच1यप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितव्रीडाहासप्रियाहसितो हरिः॥ 131 ॥

2ललितगमना 3नार्यो 4राजन्मनोजनितान्तभाः 5सुरतिसदृशस्ताः 6सन्मुख्यो भवानपि तद्ब्रुवे।
वनभुवमितो गेहादेको न गच्छतु मां विनेत्यसकृदुदितः पुत्रः पित्रा जयत्यनघो हरिः॥ 132 ॥

देवः पायात्पयसि विमले1 यामुने 2मज्जतीनां याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि।
लज्जालोलैरलसवलितैरुन्मिषत्पञ्चबाणैर्गोपस्त्रीणां नयनकुसुमैरञ्चितः केशवो नः॥ 133 ॥

वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि।
आभीराणां मधुरमुरलीनादसंमोहितानां मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः॥ 134 ॥
शिरश्छायां कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ।
इति क्रीडाकोपे निभृतमुभयोरप्यनुनयप्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः॥ 135 ॥
3अवेमव्यापाराकलनम4तुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघटनायासमसकृत्।
विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं 5पतगपतिकेतोरवतु नः॥ 136 ॥

कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः।
अभूद्वक्त्रेन्दौ यन्निहतनयनः कम्पितभुजस्तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति॥ 137 ॥
जयश्रीविन्यस्तै6र्महित7 इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा 8मुद्रित इव।
भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृ9ग्बिन्दुर्जयति भुजदण्डो मुरजितः॥ 138 ॥

सुपर्णः स्वर्णाद्रौ रचितमणिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः।
त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो दिशतु भवतां शर्म सततम्॥ 139 ॥
क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके।
त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बलाल्लसत्पुलकपञ्जरो जयति गोकुले केशवः॥ 140 ॥
मेघैर्मेदु10रमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं11 भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले 12रहःकेलयः॥ 141 ॥

कौन्तेयस्य13 सहायतां करुणया गत्वा विनीतात्मनो येनोल्लङ्घितसत्पथः कुरुपतिश्चक्रे कृतान्ता14तिथिः।
त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा संपदे साधूनामसुराधिनाथमथनः स्ताद्देवकीनन्दनः॥ 142 ॥

आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं तव मुखं हेतुस्तु नो लक्ष्यते।
धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः॥ 143 ॥
संसक्तानिव पातुमौपनिषदव्याहारमाध्वीरसानुन्मार्ष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव।
उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीकबल्लवशिशोः पादाम्बुजं पातु वः॥ 144 ॥
कृष्णो गोरसचौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम किमिदं नाहं परस्त्रीरतः।
किं गोविन्द वदत्यसौ हलधरो मिथ्येति तां व्याहरन्गोपीगोपकदम्बकं विहसयन्मुग्धो मुकुन्दोऽवतु॥ 145 ॥
मातस्त1र्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः।
भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोदाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः॥ 146 ॥

कासि त्वं वद चौर्यकारिणि कुतः कस्त्वं 2पुरो यामिकः किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस्य केन त्वया।
कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यतामित्युक्ते धृतबल्लवीकुचयुगस्त्वां पातु पीताम्बरः॥ 147 ॥

कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम्।
ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः॥ 148 ॥
कृष्ण त्वं नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः।
तद्याचेऽञ्जलिना भवन्तमधुना वृन्दावनं मद्विना मा यासीरिति नन्दगोपवचसा नम्रो हरिः पातु वः॥ 149 ॥
कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः।
कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगतिं विवेक्तुमिति संजल्पन्हरिः पातु वः॥ 150 ॥
स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः।
तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः॥ 151 ॥
मातः किं यदुनाथ देहि 3चषकं किं तेन पातुं पयस्तन्नास्त्यद्य कदास्ति तन्निशि निशा का वान्धकारोदये।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यतकरः कृष्णः स पुष्णातु नः॥ 152 ॥

अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकंस्तनं सद्यः प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः।
मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः॥ 153 ॥
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विज1नस्थयोर्हतजनः संभावयत्यन्यथा।
इत्यामन्त्रणभङ्गिसू2चितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं हरिः पातु वः॥ 154 ॥

रामो3 नाम बभूव हुं तदबला सीतेति हुं तौ पितुर्वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः।
कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः॥ 155 ॥

कोऽयं द्वारि हरिः4 प्रयाह्युपवनं शाखामृगस्यात्र किं 5कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात्।
राधेऽहं 6मधुसूदनो व्रज लतां तामेव पुष्पान्वितामित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः॥ 156 ॥

पीठे पीठनिषण्णबालकगले तिष्ठन्सगोपालको 7यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य घण्टारवम्।
वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत्॥ 157 ॥

8पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः9 क्रीतोऽस्मि ते विभ्रमैः।
इत्युत्स्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः॥ 158 ॥

दृष्ट्या केशव गोपराग10हृतया किंचिन्न11 दृष्टं मया तेनात्र स्खलितास्मि नाथ 12पतितां किं नाम नालम्बसे।
एकस्त्वं 13विषमेषु खिन्नमनसां सर्वाबलानां14 गतिर्गोप्यैवं गदितः 15सलेशमवताद्गोष्ठे16 हरिर्वश्चिरम्॥ 159 ॥

केयं भाग्यवती तवोरसि मणी ब्रूषेऽग्रवर्णं17 विना कृत्वास्याः प्रथमं विना क्व सहजो वर्णो मणेस्तादृशः।
स्त्रीरूपं कथमस्य लिङ्गनियमात्पृच्छामि वध्वाकृतिं मुग्धे त्वत्प्रतिबिम्बमित्यपलपन्राधां हरिः पातु वः॥ 160 ॥

यां दृष्ट्वा यमुनापिपासुरनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः कान्तिः कालियशासनस्य वपुषः सा पावनी पातु वः॥ 161 ॥
श्रीमद्गोपवधूस्वयंग्रहपरिष्वङ्गेषु तुङ्गस्तनव्यामर्दाद्गलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम्।
कश्चिज्जागरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनादरसिको जाराग्रणीः पातु वः॥ 162 ॥
कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुरः।
प्राप्तुं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः॥ 163 ॥
कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्ण क एवमाह 1मुसली मिथ्याम्ब पश्याननम्।
2व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जगन्माता यस्य जगाम विस्मयपदं पायात्स वः श्रीपतिः॥ 164 ॥

अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः3
सासूयं 4कमलालया 5सुरगणः सानन्दमुद्यद्भदं 6राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः॥ 165 ॥

कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे 7रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम्।
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेर8क्षुण्णोऽनुनयः प्रसन्नदयिता दृष्टस्य पुष्णातु वः॥ 166 ॥

कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते।
भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः॥ 167 ॥
रासोल्लासभरेण विभ्रमभृतामाभी9रवामभ्रुवामभ्यर्णे10 परिरभ्य निर्भरमुरः प्रेमान्धया राधया।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुतिव्याजादुद्भ11टचुम्बितः स्मितमनोहारी हरिः पातु वः॥ 168 ॥

साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्ला12सितभ्रूवल्लीकमलीकदर्शि13तभुजामूलार्धदृष्टस्तनम्।
गोपीनां निभृतं14 निरीक्ष्य ललितं काञ्चिच्चिरं चिन्तयन्नन्तर्मुग्धमनोहरो हरतु वः क्लेशं नवः1 केशवः॥ 169 ॥

तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद्गीतस्थानकृतावधानललनालक्षैर्न संलक्षिताः।
2सम्मुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृ3दुस्पन्दं पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः॥ 170 ॥

वृष्टिव्याकुलगोकुला4वनरसा5दुद्धृत्य गोवर्धनं बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः।
कन्दर्पेण न दर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसिद्विषः॥ 171 ॥

राधामुग्धमुखारविन्दम6धुपस्त्रैलोक्यमौलिस्थलीने7पथ्योचितनीलरत्नमवनीभारावतारक्षमः।
स्वच्छन्दव्रजसुन्दरीजनमनस्तोष8प्रदोषश्चिरं कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥ 172 ॥

किं विभ्राम्यसि 9कृष्ण भोगिभवने 10भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम्।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके 11गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः॥ 173 ॥

सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरादानम्रैर्मुकुटेन्द्रनीलमणिभिः 12संदर्शितेन्दीवरम्।
स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्क13न्दाय वन्दामहे॥ 174 ॥

प्रातर्नीलनिचो14लमच्युतमुरः15सम्वीतपीताम्शुकं राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले।
व्रीडाचञ्चलम16ञ्चलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ 175 ॥

प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान्।
17पत्रे बिभ्यति 18मीलति क्षणमपि क्षिप्रं तदालोकनाद्व्यामोहेन जितं जितं जितमभूद्व्या19लोलकोलाहलः॥ 176 ॥

त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः। इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोञ्चलं राधायाः स्तनकोरकोपरिलसन्नेत्रो हरिः पातु वः॥ 177 ॥
वामांसस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं वंशीगीतिभवत्त्रिभङ्गवपुषं भ्रूलास्यलीलापरम्।
किंचित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम्॥ 178 ॥
अन्तर्मोहनमौलिघू1र्णन2वलन्मन्दारविस्रंसनः 3स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम्।
दृप्यद्दानवदूयमानदिविषद्दुर्बारदुःखापदां भ्रम्शः कंसरिपोर्व्यपोहयतु वोऽश्रेयांसि वंशीरवः॥ 179 ॥

मौलौ केकिशिखण्डिनी मधुरिमाधाराधरे वंशिनी पीनांसे वनमालिनी हृदि लसत्कारुण्यकल्लोलिनी।
श्रोण्यां पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी लीला काचन मोहनी विजयते वृन्दावनावासिनी॥ 180 ॥
मालाबर्हमनोज्ञकुन्तलभरं वन्यप्रसूनोक्षितां शैलेयागुरुसक्तचित्रतिलकां शश्वन्मनोहारिणीम्।
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम्॥ 181 ॥
अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किंञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम्।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम्॥ 182 ॥
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः॥ 183 ॥
कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा।
इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन्प्रमुदितः श्रीरेऽर्धपीते हरिः॥ 184 ॥
आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्खं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम्। सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः॥ 185 ॥
राधामोहनमन्दिरं जिगमिषोश्चन्द्रावलीमन्दिराद्राधे क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली।
क्षेमं कंस ततः प्रियः प्रमुदितः कंसः क्व दृष्टस्त्वया राधा क्वेति तयोः प्रसन्नममसोर्हासोद्गमः पातु वः॥ 186 ॥
दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः सर्वा एव हि वञ्चिताः खलु वयं सोऽन्वेषणीयो यदि।
द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः॥ 187 ॥
किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव।
इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनु निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम्॥ 188 ॥
स्वप्नासादितदर्शनामनुनयन्प्राणेश्वरीमादरादंसेऽस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभिः।
प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्ययः पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं शार्ङ्गिणः॥ 189 ॥
अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम्।
तस्मिन्राधासखो वः सुखयतु विलसल्लीलया कैटभारिर्व्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान्॥ 190 ॥
अङ्गुल्या कः 1कपाटं प्रहरति कुटिले माधवः2 किं वसन्तो नो चक्री3 किं कुलालो नहि 4धरणिधरः किं द्विजिह्वः फणीन्द्रः।
नाहं घोराहिमर्दी5 किमुत 6खगपतिर्नो हरिः7 किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः॥ 191 ॥

वृन्दारण्ये चरन्ती विभुरपि सततं भूर्भुवः स्वः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि निगमैर्लक्षिता वीक्षितापि।
विद्युल्लेखावनद्धोन्नमदमलमहाम्भोदसच्छायकाया माया पायादपायादविहितमहिमा कापि पैताम्बरी वः॥ 192 ॥
नामोदस्ताखिलामो दमनियमयुजां यः प्रकामोदवाहश्यामो दर्पाढ्यधामोदयमिलितयशोधारया मोदते यः।
वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो वः॥ 193 ॥
मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोऽङ्गनाभिर्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान्॥ 194 ॥


  1. धारयामः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. गोपीपक्षे ललितं गमनं यासां ताः कृष्णपक्षे ललिते गे गाने मनो यस्य सः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. स्त्रियः; [पक्षे] नास्त्यार्यः श्रेष्ठो यस्मात्सः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. राजता मनोजेन मदनेन नितान्तात्यन्ता भाः कान्तिर्यासां ताः; [पक्षे] राजन्मनोजनिः शोभमानमदनस्तान्तो म्लानो यस्यास्तादृशी भा यस्य सः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. शोभायमानया रत्या कामपत्न्या सदृशः; [पक्षे] सुष्ठु रतौ रमणे योग्यः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. सन्ति शोभनानि मुखान्याननानि यासां ताः; [पक्षे] सत्सु प्रशस्तेषु केलिचतुरेषु मुख्यः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. पूजितः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. चित्रितः. ↩︎ ↩︎ ↩︎ ↩︎

  9. रक्तबिन्दुः. ↩︎ ↩︎ ↩︎ ↩︎

  10. व्याप्तमित्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  11. रात्रौ. ↩︎ ↩︎ ↩︎ ↩︎

  12. एकान्तक्रीडाः. ↩︎ ↩︎ ↩︎ ↩︎

  13. युधिष्ठिरस्य. ↩︎ ↩︎ ↩︎ ↩︎

  14. मारितः. ↩︎ ↩︎ ↩︎ ↩︎

  15. ससूचनम्. ↩︎ ↩︎

  16. गोस्थानम्. ↩︎ ↩︎

  17. रमणीत्यर्थः. ↩︎ ↩︎

  18. मृते सति. ↩︎

  19. चञ्चलः. ↩︎