त्रातः 1काकोदरो येन द्रोग्धापि करुणात्मना।
2पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः॥ 96 ॥
मर्दितरावणकंसौ सरयूयमुनाविहारिणौ देवौ।
अर्पितविप्रकुमारौ हरिपतिहरि3केतनप्रियौ वन्दे॥ 97 ॥
यः पूत4नामारणलब्धकीर्तिः का5कोदरो येन विनीतदर्पः।
6यशोदयालंङ्कृतमूर्तिरव्यात्पतिर्यदूनामथवा रघूणाम्॥ 98 ॥
-
अदरो भयशून्यः काकः; [पक्षे] कालियसर्पः. ↩︎
-
पूतनामा पवित्रनामा. रणे ख्यातश्च; [पक्षे] पूतनाया राक्षस्या मारणेन ख्यातः. ↩︎
-
अर्जुनः. ↩︎
-
पूतनाया मारणेन लब्धा कीर्तिर्येन; [पक्षे] पवित्रनामा रणे लब्धा कीर्तिश्च येन. ↩︎
-
कालियः सर्पः; [पक्षे] धृष्टः काकः. ↩︎
-
यशोदया मात्रालंकृतो देहो यस्य; [पक्षे] यशसा दयया चालंकृतो देहो यस्य. ↩︎