अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता।
अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता॥ 94 ॥
कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा नवातङ्का लङ्का समजनि वनं वृश्चति सति।
सदा सीता कान्तप्रणतिमति विख्यातमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः॥ 95 ॥