०७ रामचन्द्रः

वन्दामहे महेशानचण्डकोदण्डखण्डनम्।
जानकीहृदयानन्दचन्दनं रघुनन्दनम्॥ 75 ॥
नमो रामपदाम्भोजं रेणवो यत्र संततम्।
कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः॥ 76 ॥
स्वर्णैणाजिनशयनो योजितनयनो दशास्यदिग्भागे।
मुहुरवलोकितचापः कोऽपि दुरापः स नीलिमा शरणम्॥ 77 ॥
अधिपञ्चवटीकुटीरवर्तिस्फुटितेन्दीवरसुन्दरोरुमूर्तिः।
अपि लक्ष्मणलोचनैकसख्यं भजत ब्रह्म सरोरुहायताक्षम्॥ 78 ॥
कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः।
अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः॥ 79 ॥
परिणयविधौ भङ्क्त्वानह्गद्विषो धनुरग्रतो जनकसुतया दत्तां कण्ठे स्रजं हृदि धारयन्।
कुसुमधनुषा पाशेनेव प्रसह्य वशीकृतोऽवनतवदनो रामः पायात्त्रपाविनयान्वितः॥ 80 ॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामनःकामाय प्रथमाननिर्मलगुणग्रा1माय रामात्मने।
योगारूढमुनीन्द्रमानससरोहंसाय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः॥ 81 ॥

यो रामो न जघान वक्षसि रणे तं रावणं सायकैर्हृद्यस्य प्रतिवासरं वसति सा2 तस्या ह्यहं राघवः।
मय्यास्ते भुवनावली परिवृता द्वीपैः समं सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापरः॥ 82 ॥

राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं घोरं वनं प्रस्थितः।
स्वाधीनः शशिमौलिचापविषये प्राप्तो न वै विक्रियां पायाद्वः स विभीषणा3ग्रजनिहा रामाभिधानो हरिः॥ 83 ॥

कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम्।
चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम्॥ 84 ॥
कूर्मो मूलवदालवालवदपांराशिर्लतावद्दिशो मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः।
स्वामिन्व्योमतरुः क्रमे मम कियाञ्छ्रुत्वेति 4गां मारुतेः सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम्॥ 85 ॥

एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदौ वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रारुणाङ्काङ्कितौ।
लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः॥ 86 ॥
बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि।
आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षावधि॥ 87 ॥
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम॥ 88 ॥
कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा।
सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा॥ 89 ॥
योऽद्धा5 योद्धावधीत्तान्सपदि 1पलभुजः संपराये2 परा6ये येना7येनाश्रितानां स्तुतिरवनमितेशानचापेन 8चापे।
लङ्कालंकारहर्ता ककुभि ककुभि यः कान्तया सीतयासीदूनो9 दूनोऽथ10 हृष्टः स विभुरवतु वः 11स्वःसभार्यः सभार्यः॥ 90 ॥

12ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं13 स्फारं नेत्रानलेन14 प्रसभनियमितोच्चा3पमीनध्वजेन।
4रामायत्तं पुरारेः 5कुमुदशुचि 1लसन्नीलसुग्रीवमङ्गं प्लावङ्गं वापि सैन्यं 2दशवदनशिरश्छेदहेतु श्रियेऽस्तु॥ 91 ॥

यस्तीर्थानामुपास्त्या6 गलितमलभरं मन्यते स्म स्वमेवं नाज्ञासीज्जज्ञिरे यन्मम चरणरजःपादपूतान्यमूनि।
पादस्पर्शेन कुर्वञ्झटिति विघटितग्रावभावामहल्यां कौसल्यासूनुरूपं व्यपनयतु स वः। श्रेयसा च श्रिया च॥ 92 ॥


  1. समूहः. ↩︎ ↩︎ ↩︎

  2. सीता. ↩︎ ↩︎ ↩︎

  3. विभीषणस्याग्रजन्मा रावणस्तं हन्तीति सः. ↩︎ ↩︎

  4. वाचम्. ↩︎ ↩︎

  5. निश्चितम्. ↩︎ ↩︎

  6. शत्रवः. ↩︎ ↩︎

  7. भाग्येन. ↩︎

  8. प्राप्ताः. ↩︎

  9. विरहितः. ↩︎

  10. दुःस्थितमनाः. ↩︎

  11. देवसभास्वामी. ↩︎

  12. ऋक्षाणां भल्लूकानामधिपतिना जाम्बवता; [पक्षे] नक्षत्राणामधिपतिना चन्द्रेण. ↩︎

  13. भीमस्तारो वानरविशेषः; [पक्षे] भीमा तारा नेत्रकनीनिका. ↩︎

  14. नेत्रा नायकेन नलेन नलनाम्ना वानरेण; [पक्षे] नेत्रानलेन तृतीयनेत्राग्निना. ↩︎